________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जिज्ञासाधिकरणम्.
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
१११
l
ङादिवाच्यं कार्य स्वर्गसाधनमेवेति क्षणभङ्गिकर्मातिरेकि स्थिरं स्वर्गसाधनमपूर्वमेव कार्यमिति स्वर्गसाधनतोल्लेखेनैव ह्यपूर्वव्युत्पत्तिः । अतः प्रथममनन्यार्थतया प्रतिपन्नस्य कार्यस्यानन्यार्थत्वनिर्वहणायापूर्वमेव पश्चात्स्वर्गसाधनं भवतीत्युपहास्यम्, स्वर्गकामपदान्वितकार्याभिधायिपदेन प्रथममप्यनन्यार्थतानभिधानात् ; सुखदुःखनिवृत्तितत्साधनेभ्यो ऽन्यस्थानन्यार्थस्य कृतिसाध्यताप्रतीत्यनुपपत्तेश्च । अपिच - किमिदं नियोगस्य प्रयोजनत्वम्, सुखवन्नियोगस्याप्यनुकूलत्वमेवेति चेत्, किं नियोगस्सुखम् ; सुखमेव ह्यनुकूलम् । सुखविशेषवन्नियोगापरपर्यायं विलक्षणं मुखान्तरमितिचेत्; किं तत्र प्रमाणमिति वक्तव्यम् । स्वानुभवश्चेत्, नः विषयविशेषानुभव सुखवन्नियोगानुभवसुखमिदमिति भवताऽपि नानुभूयते । शास्त्रेण नियोगस्य पुरुषार्थतया प्रतिपादनात् पश्चात भोक्ष्यत इति चेत्; किं तन्नियोगस्य पुरुषार्थत्ववाचि शास्त्रम् । न तावल्लौकिकं वाक्यम् ; तस्य दुःखात्मकक्रियाविषयत्वात् तेन सुखादिसाधनतयैव कृतिसाध्यतामा - त्रप्रतिपादनात् । नापि वैदिकम् तेनापि स्वर्गादिसाधनतयैव कार्यस्य प्रतिपादनात् । नापि नित्यनैमित्तिकशास्त्रम्; तस्यापि तदभिधायित्वं स्वर्गकामवाक्यस्थापूर्वव्युत्पत्तिपूर्वकमित्युक्तरीत्या तेनापि सुखादिसाधनका - र्याभिधानमवर्जनीयम् । नियतैहिकफलस्य कर्मणोऽनुष्ठितस्य फलत्वेन तदानीमनुभूयमानान्नाद्यरोगतादिव्यतिरेकेण नियोगरूपसुखानुभवानुपलब्धेश्च नियोगस्सुखमित्यत्र न किंचन प्रमाणमुपलभामहे । अर्थवादादिष्वपि स्वर्गादिसुखप्रकारकीर्तनवन्नियोगरूप सुखमकारकीर्तनं भवतापि न दृष्टचरम् ॥
For Private And Personal Use Only
-
अतो विधिवाक्येष्वपि धात्वर्थस्य कर्तृव्यापारसाध्यतामात्रं शब्दानुशासनसिद्धमेव लिङादेर्वाच्यमित्यध्यवसीयते। धात्वर्थस्य च यागादेरनयादिदेवतान्तर्यामिपरमपुरुषसमाराधनरूपता, समाराधितात्परमपु