________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११० शारीरकमीमांसाभाष्ये
[अ.१ वर्तते पुरुषइति न कचिदपीच्छाविषयस्य कृत्यधीनसिद्धित्वमन्तरेण कुत्युद्देश्यत्वं नाम किश्चिदप्युपलभ्यते । इच्छाविषयस्य प्रेरकत्वं च प्रयनाधीनसिद्धित्वमेव, ततएव प्रवृत्तेः। न च पुरुषानुकूलत्वं कृत्युद्देश्यत्वम्, यतस्सुखमेव पुरुषानुकूलम् । न च दुःखनिवृत्तेः पुरुषानुकूलत्वम् । पुरुपानुकूलं सुखं तत्प्रतिकूलं दुःखम्' इति हि सुखदुःखयोस्स्वरूपविवेकः । दुःखस्य प्रतिकूलतया तन्नित्तिरिष्टा भवति ; नानुकूलतया । अनुकूलप्रतिकूलान्वयविरहे स्वरूपेणावस्थितिर्हि दुःखनिवृत्तिः। अतस्सुखव्यतिरिक्तस्य क्रियादेरनुकूलत्वं न संभवति । न सुखार्थतया तस्याप्यनुकूलत्वम्, दुःखात्मकत्वात्तस्य । सुखार्थतयाऽपि तदुपादानेच्छामात्रमेव भवति । न च कृति प्रति शेषित्वं कृत्युद्देश्यत्वम् , भवत्पक्षे शेषित्वस्यानिरूपणात् । न च परोद्देशप्रवृत्तकृतिव्याप्यहत्वं शेषत्वमिति तत्पतिसम्बन्धी शेषीत्यवगम्यते, तथा सति कृतेरशेषत्वेन तां प्रति तत्साध्यस्य शेषित्वाभावात् । न च परोदेशप्रवृत्यर्हतायाश्शेषत्वेन परश्शेषी, उद्देश्यत्वस्यैव निरूप्यमाणत्वात्, प्रधानस्यापि भृत्योदेशप्रवृत्त्यर्हत्वदर्शनाच । प्रधानस्तु भृत्यपोषणेऽपि स्वोदेशेन प्रवर्तत इति चेन्न, भृत्योऽपि हि प्रधानपोषणे स्वोद्देशेनैव प्रवर्तते । कार्यस्वरूपस्यैवानिरूपणात् 'कायतिसम्बन्धी शेषः, तत्पतिसम्बन्धी शेषी' इत्यप्यसङ्गतम् ॥
नापि कृतिप्रयोजनत्वं कृत्युद्देश्यत्वम् । पुरुषस्य कृत्यारम्भप्रयोजनमेव हि कृतिप्रयोजनम् । स चेच्छाविषयः । तस्मादिष्टत्वातिरेकिकृत्युद्देश्यत्वानिरूपणात् कृतिसाध्यताकृतिप्रधानत्वरूपं कार्य दुर्निरूपमेव ।।
नियोगस्यापि साक्षादिषिविषयभूतसुखदुःखनिवृत्तिभ्यामन्यत्वातत्साधनतयैवेष्टत्वं कृतिसाध्यत्वं च । अत एव हि तस्य क्रियातिरिक्तता अन्यथा क्रियैव कार्य स्यात; स्वर्गकामपदसमभिव्याहारानुगुण्येन लि
For Private And Personal Use Only