________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
शारीरकमीमांसाभाष्ये
[अ. १.
१" सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत " इत्यारभ्य २" सत्यं चानृतं च सत्यमभवत् " इत्याद्याः ॥
'
अत्रापि श्रुत्यन्तरसिद्धश्विदचितोः परमपुरुषस्य च स्वरूपविवेकस्स्मारितः -- ३" हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति – “ तत्सृष्ट्वा । तदेवानुमाविशत् । तदनुप्रविश्य । सच्चत्यच्चाभवत् विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत्" इति च । “ अनेन जीवेनाऽत्मनाऽनुप्रविश्य " इति जीवस्य ब्रह्मात्मकत्वं, " तदनुप्रविश्य सच्च त्यच्चाभवत् " " विज्ञानं चाविज्ञानं च " इत्यनेनैकार्थ्यात् आत्मशरीरभावनिबन्धनमिति विज्ञायते । एवंभूतमेव नामरूपव्याकरणं ४" तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यां व्याक्रियत" इत्यत्राप्युक्तम् । अतः कार्यावस्थः कारणावस्थश्च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमपुरुष एवेति कारणात्कार्यस्यानन्यत्वेन कारणविज्ञानेन कार्यस्य ज्ञाततयैकविज्ञानेन सर्वविज्ञानं समीहितमुपपन्नतरम् । " अहमिमास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति, "तिस्रो देवता" इति सर्वमचिद्वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नामरूपव्याकरणवचनात् सर्वे वाचकाश्शब्दाः ५ अचिद्विशिष्टजीवविशिष्टपरमात्मन एव वाचका इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिनश्शब्दस्य सामानाधिकरण्यं मुख्यवृत्तम् । अतः स्थूलसूक्ष्मचिदचित्मकारं ब्रह्मैव कार्य कारणं चेति ब्रह्मोपादानं जगत् । सूक्ष्मचिदचिद्वस्तुशरीरकं ब्रह्मैव कारणमिति ॥
ब्रह्मोपादानत्वेऽपि संघातस्योपादानत्वेन चिदचितोर्ब्रह्मणश्च स्वभावासङ्करोऽप्युपपन्नतरः । यथा शुक्लकृष्णरक्ततन्तुसंघातोपादानत्वेऽ
१, २, तै. आन. ६. अनु, २-३.
३. छा. ६. प्र. ३. ख, २,
४. बृ. ३, अ. ४. ब्रा. ७..
५. अचिज्जीवविशिष्ट. पा.
For Private And Personal Use Only