SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.१.] जिज्ञासाधिकरणम् . एवं भोक्तभोग्यरूपेणावस्थितयोस्सर्वावस्थावस्थितयोश्चिदचितोः परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथस्थितिं परमपुरुषस्य चात्मत्वमाहुः काश्चन श्रुतयः-१“यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति" इत्यारभ्य २“य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न देव यस्याऽत्मा शरीरंय आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः" इति। तथा-३"यः पृथिवीमन्तरे सञ्चरन्यस्य पृथिवी शरीरं यं पृथिवी न वेद" इत्यारभ्य ४“ योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद यो मृत्युमन्तरे सञ्चरन्यस्य मृत्युश्शरीरं यं मृत्युनं वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः"; अन मृत्युशब्देन तमश्शब्दवाच्य सूक्ष्मावस्थमचिद्वस्त्वभिधीयते ; अस्यामेवोपनिषदि-५" अव्यक्तमक्षरे ६लीयते । अक्षरं तमसि लीयते" इति वचनात् । ८"अन्तःप्रविष्टश्शास्ता जनानां सर्वात्मा" इति च ॥ ___ एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्पकारः परमपुरुष एव कार्यावस्थकारणावस्थजगद्रूपेणावस्थित इतीममर्थ ज्ञापयितुं काश्चन श्रुतयः कार्यावस्थं कारणावस्थं च जगत् स एवेत्याहुः-९"सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोसृजत"इत्यारभ्य १० "सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः। ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्वमसि श्वेतकेतो"इति । तथा १. वृ. ५. अ. ७, बा. ३. । ६. ७, विलीयते पा. २. वृ. ५. अ. ७. प्रा. विज्ञानस्थाने मा. ८. यजुरारण्यके, ३. प्रश्न. चित्ति. ११. ध्यन्दिनपाठ:. २२. अनु. २१. पं. ३. ४. सुबाल. ७. ख. । ९. छा.६. प्र. २. ख. १. ५. सुवाल. २. ख. १०, छा, १.प्र. ८. ख. ६. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy