SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.१] जिज्ञासाधिकरणम् . पदार्थविवेकप्रदर्शनाय निरूपणानिष्कर्षकशब्दोऽयम् ; यथा 'गोत्वं शुक्लत्वमाकृतिर्गुणः' इत्यादिशब्दाः॥ ____ अतो गवादिशब्दवदेवमनुष्यादिशब्दा आत्मपर्यन्ताः। एवं देवमनुष्यादिपिण्डविशिष्टानां जीवानां परमात्मशरीरतया तत्पकारत्वात् जीवात्मवाचिनश्शब्दाः परमात्मपर्यन्ताः । अतः परस्य ब्रह्मणः प्रकारतयैव चिदचिद्वस्तुनः पदार्थत्वमिति तत्सामानाधिकरण्येन प्रयोगः। अयमों वेदार्थसङ्गहे समर्थितः । इदमेव शरीरात्मभावलक्षणं तादात्म्यम् १"आत्मेति तूपगच्छन्ति ग्राहयन्ति च" इति वक्ष्यतिः २" आत्मेत्येव तु गृह्णीयात्" इति च वाक्यकारः॥ अत्रेदं तत्त्वम्-अचिद्वस्तुनः चिद्वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चेशितृत्वेन च खरूपविवेकमाहुः काश्चन श्रुतयः३" अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सनिरुद्धः"४ "मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्"५"क्षरं प्रधानममृताक्षरं हरःक्षरात्मानावीशते देव एकः";अमृताक्षरं हर इति भोक्ता निर्दिश्यते,प्रधानमात्मनो भोग्यत्वेन हरतीति हरः।६ “स कारणं करणाधिपाधिपो न चास्य कश्चिजनिता न चाधिपः""प्रधानक्षेत्रज्ञपतिगुणेशः""पतिं विश्वस्याऽत्मश्वरं शाश्वतं शिवमच्युतम्" ९ 'ज्ञाज्ञौ द्वावजावीशनीशौ" १०"नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्"११"भोक्ता भोग्यं प्रेरितारं च मत्वा" १२ "तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति" १. शारी. ४. अ. १. पा. ३. सू. ८. ते नारायणे. ११. अनु. ३. वा. २. वृत्ति:. ९. श्वे. १. अ, ९. ३. ४. श्वे. ४. अ. ९-१०. १०. कठ. ५. वल्ली, १३. ५. श्वे. १. अ, १०, ११. श्वे. १. अ. १२. ६. श्वे. ६. अ. ९. १२. मु. ३, मु. १. ख. १. ७. श्वे. ६. अ. १६. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy