SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [अ. १. जातिगुणवदात्मप्रकारत्वं मनुष्यादिशरीराणामिष्यते; तहि जातिव्यक्त्योरिव प्रकारप्रकारिणोश्शरीरात्मनोरपि नियमेन सह प्रतिपत्तिस्स्यात् । न चैवं दृश्यते। नहि नियमेन गोत्वादिवदात्माश्रयतयैवाऽत्मना सह मनुब्यादिशरीरं पश्यन्ति । अतो 'मनुष्य आत्मा' इति सामानाधिकरण्यं लाक्षणिकमेव। नैतदेवम् मनुष्यादिशरीराणामप्यात्मैकाश्रयत्वम्, तदेकप्रयोजनत्वम् , तत्पकारत्वं च जात्यादितुल्यम्। आत्मैकाश्रयत्वमात्मविश्लेषे शरिविनाशादवगम्यते । आत्मैकप्रयोजनत्वं च तत्कर्मफलभोगार्थतयैव सद्भावात् । तत्पकारत्वमपि 'देवो मनुष्यः' इत्यात्मविशेषणतयैव प्रतीतेः । एतदेव हि गवादिशब्दानां व्यक्तिपर्यन्तत्वे हेतुः। एतत्स्वभावविरहादेव दण्डकुण्डलादीनां विशेषणत्वे 'दण्डी, कुण्डली' इति मत्वर्थीयप्रत्ययः। देवमनुष्यादिपिण्डानामात्मैकाश्रयत्वतदेकप्रयोजनत्वतत्पकारत्वस्वभावात् 'देवो मनुष्य आत्मा' इति लोकवेदयोस्सामानाधिकरण्येन व्यवहारः । जातिव्यक्त्योर्नियमेन सह प्रतीतिरुभयोश्चाक्षुषत्वात् । आत्मनस्त्वचाक्षुषत्वाच्चक्षुषा शरीरग्रहणवेलायामात्मा न गृह्यते । पृथग्रहणयोग्यस्य प्रकारतैकवरूपत्वं दुर्घटमिति मा वोचः; जात्यादिवत्तदेकाश्रयत्वतदेकप्रयोजनत्वतद्विशेषणत्वैश्शरीरस्यापि तत्प्रकारतकस्वभावत्वावगमात्।सहोपलम्भनियमस्त्वेकसामग्रीवेद्यत्वनिबन्धन इत्युक्तम् । यथा चक्षुषा पृथिव्यादेगन्धरसादिसंबन्धित्वं स्वाभाविकमपि न गृह्यते । एवं चक्षुषा गृह्यमाणं शरीरमात्मप्रकारतकस्वभावमपि न तथा गृह्यते ; आत्मग्रहणे चक्षुषस्सामर्थ्याभावात् । नैतावता शरीरस्य तत्पकारत्वस्वभावविरहः । तत्पकारतैकखभावत्वमेव सामानधिकरण्यनिबन्धनम् । आत्मप्रकारतया प्रतिपादनसमर्थस्तु शब्दस्सहैव प्रकारतया प्रतिपादयति॥ ननु च शाब्देऽपि व्यवहारे शरीरशब्देन शरीरमात्रं गृह्यत इति नात्मपर्यन्तता शरीरशब्दस्य । नैवम् ; आत्मप्रकारभूतस्यैव शरीरस्य For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy