SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आ. १.] जिज्ञासाधिकरणम्. ८५ अथ वेशन्तान्पुष्करिण्यस्स्रवन्त्यस्सृजते । स हि कर्ता " इति । यद्यपि सकले तर पुरुषानुभाव्यतया तदानीं न भवन्ति । तथाऽपि तत्तत्पुरुषमात्रानुभाव्यतया तथाविधानर्थानीश्वरस्सृजति । स हि कर्ता । तस्य सत्यसङ्कल्पस्याऽश्वर्यशक्तेस्तथाविधं कर्तृत्वं सम्भवतीत्यर्थः । १" य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिलोकाश्रितास्सर्वे तदु नात्येति कश्चन " इति च । मूत्रकारोऽपि २" सन्ध्ये सृष्टिराह हि " ३" निर्मातारं चैके पुत्रादयश्च" इति सूत्रद्वयेन स्वामेष्वर्थेषु जीवस्य स्रष्टृत्वमाशङ्कय ४" मायामात्रं तु कात्स्न्यैनानभिव्यक्तस्वरूपत्वात् " इत्यादिना - न जीवस्य सङ्कल्पमात्रेण स्रष्टृत्वमुपपद्यते । जीवस्य स्वाभाविकसत्यसङ्कल्पत्वादेः कृत्स्नस्य संसारदशायामनभिव्यक्तस्वरूपत्वात् ईश्वरस्यैव तत्तत्पुरुषमात्रानुभाव्यतया आश्चर्यभूता सृष्टिरियम् । “ तस्मिल्लकास्थितास्सर्वे तदु नात्येति कश्चन " इति परमात्मैव तत्र स्रष्टेत्यवगम्य ते इति परिहरति । अपवरकातिषु शयानस्य स्वमदृशः स्वदेहेनैव देशान्तरगमनराज्याभिषेकाशिरश्छेदादयश्च पुण्यपापफलभूताश्शयानदेहसरूपसंस्थानदेहान्तरसृष्टयोपपद्यन्ते ॥ पीतशङ्खादौ तु नयनवर्तिपित्तद्रव्यसंभिन्ना नायनरश्मयश्शङ्खादिभिस्संयुज्यन्ते । तत्र पित्तगतपीतिमाभिभूतश्शङ्खगतशुक्तिमा न गृह्यते । अतस्सुवर्णानुलिप्तशङ्खवत् पीतश्शङ्ख इति प्रतीयते । पित्तद्रव्यं तद्गतपीतिमा चातिसौक्ष्म्यात्पार्श्वस्थैर्न गृह्यते । पित्तोपहतेन तु स्वनयननिष्क्रान्ततया - ऽतिसामीप्यात् सूक्ष्ममपि गृह्यते । तद्गुहणजनितसंस्कारसचिवनायनरश्मिभिर्दूरस्थमपि गृह्यते ॥ जपाकुसुमसमीपवर्तिस्फटिकमणिरपि तत्प्रभाभिभूततया रक्त इति गृह्यते । जपाकुसुमप्रभा विततापि स्वच्छद्रव्य ५ संयुक्ततया स्फुटतरमुपल१. कठ. २-अ, ५ वल्ली. ८. २-३-४. शारी. ३ अ. २- पा. १-२-३. सू. ५. संयुक्ता. पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy