SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] जिज्ञासाधिकरणम् ८३ विशेषकरत्त्रम् | अनादिमिथ्याज्ञानोपादानत्वं तु पूर्वमेव निरस्तम् ॥ किंच - अपूर्वमनिर्वचनीयमिदं वस्तुजातं रजतादिबुद्धिशब्दाभ्यां कथमिव विषयीक्रियते, न घटादिबुद्धिशब्दाभ्याम् । रजतादिसादृश्यादिति चेत् तर्हि तत्सदृशमित्येव प्रतीतिशब्दौ स्याताम् । रजतादिजातियोगादिति चेत ; सा किं परमार्थभूता; अपरमार्थभूता वा ; न तावत्परमार्थभूता, तस्या अपरमार्थान्वयायोगात् । नाप्यपरमार्थभूता, परमार्थान्वयायोगात्। अपरमार्थे परमार्थबुद्धिशब्दयोर्निर्वाहकत्वायोगाच्चेत्यलमपरिणतकुतर्कनिरसनेन ॥ --- Acharya Shri Kailassagarsuri Gyanmandir अथवा १यथार्थ सर्वविज्ञानमिति वेदविदां मतम् । श्रुतिस्मृतिभ्यस्सर्वस्य सर्वात्मत्वप्रतीतितः ॥ २ “बहुस्या" मितिसंकल्प पूर्वसृष्ट्याद्युपक्रमे । ३ “तासां लिट्टतमेकैका " मितिश्रुत्यैव चोदितम् || त्रिवृत्करणमेवं हि प्रत्यक्षेणोपलभ्यते । यदग्नेरोहितं रूपं तेजसस्तदपामपि ॥ शुक्लं कृष्णं पृथिव्याचेत्यग्नावेव त्रिरूपता । श्रुत्यैव दर्शिता तस्मात्सर्वे सर्वत्र संगताः ॥ पुराणे चैवमेवोक्तं वैष्णवे सृष्टयुपक्रमे ॥ ४ " नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्नुवन् प्रजास्स्रष्टमसमागम्य कृत्स्नशः ॥ समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महदाद्या विशेषान्ता ह्यण्ड " मित्यादिना ततः ॥ सूत्रकारोऽपि भूतानां त्रिरूपत्वं तथाऽवदत् । १. 'यथार्थं सर्वविज्ञानम्' इत्यारभ्य ' व्यवहार - २. छा. उप. ६ प्र. २ - ख. ३ वा. ३.छा.उप.६-प्र. व्यवस्थिति:' इत्येतत्पर्यन्तं भाष्यकारीया: श्लोकाः ३ - ख. ३ वा. ४.वि.पु. १ - अं. २- अ. ५२, ५३, ५४ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy