________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम्. अज्ञानत्वात् । शुक्तिकाद्यज्ञानवत् । ज्ञानाश्रयं हि तत् । विवादाध्यासितमज्ञानं न १ज्ञानमात्रब्रह्मावरणम् , अज्ञानत्वात् , शुक्तिकाद्यज्ञानवत् । विषयावरणं हि तत् । विवादाध्यासितमज्ञानं न ज्ञाननिवर्त्यम्; ज्ञानविषयानावरणत्वात् ; यत् ज्ञाननिवर्त्यमज्ञानं तत् ज्ञानविषयावरणम् । यथा शुक्तिकाद्यज्ञानम् । ब्रह्म नाज्ञानास्पदम् । ज्ञातृत्वविरहात्; घटादिवत् । ब्रह्म नाज्ञानावरणम् । ज्ञानाविषयत्वात् । यदज्ञानावरणं तज्ज्ञानविषयभूतम् ; यथा शुक्तिकादि। ब्रह्म न ज्ञाननिवांज्ञानम् ; ज्ञानाविषयत्वात् । यत् ज्ञाननिवर्त्याज्ञानम् तज्ज्ञानविषयभूतम् ; यथा शुक्तिकादि । विवादाध्यासितं प्रमाणज्ञानं स्वप्रागभावातिरिक्ताज्ञानपूर्वकं न भवति ; प्रमाणज्ञानत्वात् ; भवदभिमताज्ञानसाधनप्रमाणज्ञानवत् ॥
ज्ञानं न वस्तुनो विनाशकम् । शक्तिविशेषोपबृंहणविरहे सति ज्ञानत्वात् । यद्वस्तुनो विनाशकं तच्छक्तिविशेषोपबृंहितं ज्ञानमज्ञानं च दृष्टम्; यथेश्वरयोगिप्रभृतिज्ञानम् । यथा च मुद्रादि । भावरूपमज्ञानं न ज्ञानविनाश्यम् ; भावरूपत्वात् , घटादिवदिति । अथोच्येत-बाधकज्ञानेन पूर्वज्ञानोत्पन्नानां भयादीनां विनाशो दृश्यते इति । नैवम्न हि ज्ञानेन तेषां विनाशः; क्षणिकत्वेन तेषां स्वयमेव विनाशात् । कारणनिवृत्त्या च पश्चादनुत्पत्तेः । क्षणिकत्वं च तेषां ज्ञानवदुत्पत्तिकारणसनिधान एवोपलब्धेः, अन्यथाऽनुपलब्धेश्वावगम्यते । अक्षणिकत्वे च भयादीनां भयादिहेतुभूतज्ञानसंततावविशेषेण सर्वेषां ज्ञानानां भयाद्युत्पत्तिहेतुत्वेनानेकभयोपलब्धिप्रसङ्गाच ॥
स्वपागभावव्यतिरिक्तवस्त्वन्तरपूर्वकमिति व्यर्थविशेषणोपादानेन प्रयोगकुशलता चाऽविष्कृता । अतोऽनुमानेनापि न भावरूपाज्ञानसिद्धिः। श्रुतितदर्थापत्तिभ्यामज्ञानासिद्धिरनन्तरमेव वक्ष्यते। मिथ्यार्थस्य हि मिथ्यैवोपादानं भवितुमर्हतीत्येतदपि २"न विलक्षणत्वात्" इत्य
१. ज्ञानावरणम्. पा. । २. शारी. २-अ. १-पा. ४.सू.
II
For Private And Personal Use Only