________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८०
शारीरकमीमांसाभाष्ये
[अ. १.
दविद्याकार्यमवैशद्यं तन्निवृत्तिश्च न स्याताम् | नो चेन्मोक्षस्य कार्यतया
Acharya Shri Kailassagarsuri Gyanmandir
अनित्यता स्यात् ॥
अस्याज्ञानस्याश्रयानि रूपाणादेवासंभवः पूर्वमेवोक्तिः । अपि च - अपरमार्थदोष मूलभ्रमवादिना निरधिष्ठानभ्रमासंभवोऽपि दुरुपपादः भ्रमहेतुभूत दोषदोषाश्रयत्ववदधिष्ठानापारमार्थ्येऽपि भ्रमोपपत्तेः । ततश्च सर्वशून्यत्वमेव स्यात् ॥
यदुक्तमनुमानेनापि भावरूपमज्ञानं सिध्यतीति ; तदयुक्तम् ; अनुमानासंभवात् । ननूक्तमनुमानम् । सत्यमुक्तम् । दुरुक्तं तु तत् ; अज्ञानेऽप्यनभिमताज्ञानान्तरसाधनेन विरुद्धत्वाद्धेतोः । तत्त्राज्ञानान्तरासाधने हेतोरनैकान्त्यम् । साधने च तदज्ञानमज्ञानसाक्षित्वं निवारयति । ततश्चाज्ञानकल्पना निष्फला स्यात्, दृष्टान्तश्च साधनविकलः ; दीपप्रभाया अप्रकाशितार्थप्रकाशकत्वाभावात् । सर्वत्र ज्ञानस्यैव हि प्रकाशकत्वम् । सत्यपि दीपे ज्ञानेन विना विषयप्रकाशाभावात् । इन्द्रियाणामपि ज्ञानोत्पत्तिहेतुत्वमेव न प्रकाशकत्वम् । प्रदीपप्रभायास्तु चक्षुरिन्द्रियस्य ज्ञानमुत्पादयतो विरोधितमोनिरसनद्वारेणोपकारकत्वमात्रमेव । प्रकाशकज्ञानोत्पत्तौ व्याप्रियमाणचक्षुरिन्द्रियोपकारकहेतुत्वमपेक्ष्य दीपस्य प्रकाशकत्वव्यवहारः । नास्माभिर्ज्ञानतुल्यप्रकाशकत्वाभ्युपगमेन दीपप्रभा निदर्शिता । अपि तु ज्ञानस्यैव स्वविषयावरणनिरसनपूर्वकप्रकाशकत्वमङ्गीकृत्येति चेन्नः न हि विरोधिनिरसनमात्रं प्रकाशकत्वम् ; अपि त्वर्थपरिच्छेदः । व्यवहारयोग्य तापादानमिति यावत् । तत्तु ज्ञानस्यैव । यद्युपकारकाणामप्यप्रकाशितार्थप्रकाशकत्वमङ्गीकृतम् । तहींन्द्रियाणामुपकारकतत्वेनाप्रकाशितार्थप्रकाशकत्वमङ्गीकरणीयम् । तथा सति तेषां स्वनिवर्त्यवस्त्वन्तरपूर्वकत्वाभावाद्धेतोरनैकान्त्यमित्यलमनेन ॥
प्रतिप्रयोगाश्व विवादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्माश्रयम् ;
For Private And Personal Use Only