________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कादिश्मशानान्तस्मातकर्मणाञ्च प्रसिद्विरध्ययनसाफल्यं च न भवति, अतो द्वितीयावृत्तिमुद्रणवदेत तृतीयावृत्तिमुद्रणेपि भगवताकात्यायनेन प्रणीतस्य सर्वानुक्रमस्य सूक्तप्रतीकसंख्यर्षिदैवतच्छन्दः प्रदर्शकस्य खण्डःप्रत्यध्यायं संगृहीतः। तथा चाध्येतॄणां सर्वानुक्रमपरिभाषाज्ञानं विना तत्तत्सूक्तगतर्षिच्छन्दोदैवतादिज्ञानं न सुलभमिति सूक्तारम्भे परिभाषानुसारतः सूक्तप्रतीकसंख्यर्षिदैवतच्छन्दांसि सर्वत्र संगृहीतानि // किं चैतन्मुद्रणसमाप्तिकाले बहुभिर्विद्वज्जनैः परिशिष्टमुद्रणार्थ महता निर्बन्धेन सूचना कृता / तदनुसारेण सर्वेषामपि परिशिष्टानामत्रान्त्यभागे मुद्रणं कृतम् / किं वेतस्यामावृत्तावतावति ग्रन्थेऽधिकेपि यावच्छक्यं च संस्करणाधिक्येपि ग्रन्थमुद्रणव्ययमात्रपरिमितं मूल्यं पूर्ववद्रूपकचतुष्टयमेवाध्येतृणामाशीराशासनमात्रलाभलिप्सया परिक्लृप्तमित्यादरणीयमेतत्पुस्तकं विद्वज्जनैरित्यलं पलवितेन / For Private and Personal Use Only