________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीः॥ इदं शाकलक्संहितायाः तृतीयावृत्तिमुद्रणम् / अस्याः व्याकरणरीत्या यत्रयत्र परसवर्णः आवश्यकोऽस्ति तत्रतत्र स कृत एव / प्रथमा त्तौ तु केवलो मन्त्रपाठ एव संगृहीत आसीत् / किं तु “अविदित्वा ऋषिच्छन्दोदैवतं योगमेव च / योऽध्यापयेजपेद्वापि पापीयाञ्जायते तु सः // 1 // ऋषिच्छन्दोदैवतानि ब्राह्मणार्थस्वरानपि / अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते" / 2 // इति स्मरणात्, “स्वरो वर्णोऽक्षरं मात्रा विनियोगोऽर्थ एव च / मन्त्रं जिज्ञासमानेन वेदितव्यं पदेपदे // 1 // मन्त्राणा दैवतं छन्दो निरुक्तं ब्राह्मणानृषीन् / कृत्तद्धितादींश्चाऽज्ञात्वा यजन्ते यागकण्टकाः" // 2 // इत्यन्यत्रोक्तेः, “ऋष्यादिकं परिज्ञाय यजेद्यज्ञमतंद्रितः” इति नृसिंहपुराणाच्च,-ऋषिच्छन्दआदिज्ञानं विना यतोऽग्निहोत्रादिविश्वसृजामयनान्तश्रौतकर्मणो निषे. For Private and Personal Use Only