________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
350
ललितासहस्रनामस्तोत्रम् अर्थतोऽपि सुलभं चतुर्विधमुक्तिफलकं प्रयोगमाह
महानवम्यां यो भक्तः श्रीदेवी चक्रमध्यगाम् ।
अर्चयेन्नामसाहौस्तस्य मुक्तिः करे स्थिता ॥ २९१ ॥ महानवम्यामिति । यावज्जीवार्थकं प्रतिमासपदं रात्रिपदं चानुवर्तनीयम् । नवरात्रस्य चरमदिवसद्वयं महानवमीत्युच्यते । तच्च शिवशक्तिसामरस्यरूपम् । तत्र सर्वजातीयानां देवीपूज- नेऽधिकारः । तथाहि-नवरात्र द्विविधं शारदं वासन्तं चेति । 'शरत्काले महापूजा क्रियते या च वार्षिकी' इति मार्कण्डेयपुराणस्थवचने वार्षिकीति पदस्य वर्षस्य वत्सरस्यादौ भवेति साम्प्रदायिकैर्व्याख्यानात्, चकारादुभयोः समुच्चयस्य स्वरसतोऽवगमात्, चातुर्मासाख्यवर्षौ भवेति व्याख्यायाः शरदो वर्षर्तुत्वापादिकायाः क्लिष्टत्वात्, प्रतिवर्ष क्रियमाणेति व्याख्यायामपि विशेषणवैयर्थ्यात्, 'वासन्ते नवरात्रेऽपि पूजयेद्रक्त- दन्तिका मिति रुद्रयामले स्पष्टं नवरात्रद्वैविध्यकथनाच्च । देवीभागवते तृतीयस्कन्धे कामबीजोपासकं सुदर्शनं प्रति देवीवाक्यम्
'शरत्काले महापूजा कर्तव्या मम सर्वदा । नवरात्रोत्सवं राजन्विधिवत्परिकल्पय ॥ चैत्रे चाश्वयुजे मासि त्वया कार्यो महोत्सवः ।
नवरात्रे महाराज मम प्रीतिविधायकः॥ इत्यादि । सौभाग्यरत्नाकरे त्वाषाढपौषयोरपि नवरात्रमुक्तम् । तत्र शारदनवरात्रस्याष्टमीनवम्यौ महापूर्वे । तदुक्तं कालिकापुराणे
'आश्विनस्य तु शुक्लस्य या भवेदष्टमी तिथिः । महाष्टमीति सा प्रोक्ता देवा प्रीतिकरी परा ॥ ततोऽनु नवमी या स्यात्सा महानवमी स्मृता ।
सा तिथिः सर्वलोकानां पूजनीया शिवप्रिया ॥ इति । धौम्योऽपि
'आश्विने मासि शुक्ले तु या स्यान्मूलेन चाष्टमी ।
सा महत्यष्टमी ज्ञेया तत्र देवी कृतालया ॥ ब्रह्माण्डपुराणेऽपि
'कन्यासमाश्रिते भानौ या स्यान्मूलेन चाष्टमी ।
सा महत्यष्टमी ज्ञेया न मुग्धानवमीयुता ॥ मूलयोगोक्तिस्तु सम्भवाभिप्राया । तेन पूर्वाषाढायुतापि महाष्टम्येव
'मूलऋक्षसमायुक्ता पूजनीया प्रयत्नतः। मूलाभावेऽपि कर्तव्या यदि स्यात्तोयसंयुता ॥
For Private and Personal Use Only