________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर - बालातपासहितम्
335
तृतीया । यानि च पाद्म एव 'गन्धानुलेपनं कृत्वा ज्योतिष्टोमफलं लभे दित्यादीनि तत्तदुपचारेषु फलश्रवणानि तानि तु पर्णतान्यान्येनार्थवादः । यानि तु
'चन्दनागरुकर्पूरैः सूक्ष्मपिष्टैः सकुङ्कुमैः । आलिप्य ललितां लोके कल्पकोटीर्वसेन्नरः ॥
Acharya Shri Kailassagarsuri Gyanmandir
इत्यादीनि वचनानि तानि गोदोहनवदङ्गाश्रितगुणफलसम्बन्धविधानार्थानि । अथवा 'अन्तर्यागबहिर्यागौ गृहस्थः सर्वदाचरेदित्यादिना पूजाद्वैविध्यावगमादैक्यभावनमन्तर्याग एव । बाह्यपूजा तु गन्धपुष्पादीनां निवेदनात्मको मानसः संकल्प एव । तेषु गन्धादेः करणत्वादङ्गत्वम् | 'गन्धादीनि निवेदये दित्यादौ सक्तुन्यायेन विनियोगभङ्गः । यन्त्रादिषु गन्धादिप्रक्षेपा उपचारपदवाच्या निवेदनानामङ्गम् । तेषां च षोडशादिसंख्यानां समप्रधानानां यथावचनं साहित्येन फलकरणत्वमित्यादि यथायथमूह्यम् । सर्वासां च पूजानां क्रमपूजा प्रकृतिः । काम्यनैमित्तिकादिपूजान्तरेषु तत एव धर्मातिदेशः । इयं त्वपूर्वैव पूजा । क्लृप्तोपकाराणां पञ्चोपचाराणां प्राकृताङ्गानां पुनः श्रवणेन गृहमेधीयन्यायेन चोदकलोपात् । एषूपचारेषु करणमन्त्रस्तु 'श्रीललिताम्बिकायै नमः इत्येवंरूपः । 'विधिशब्दस्य मन्त्रत्वमित्यधिकरणन्यायेन कल्पमाने नियमे वैधपदनियमात् । यद्वा तृतीयकूटमेव करणमन्त्रः 'विद्यातृतीयखण्डेन कुर्यात्सर्वोपचारकानि' 'त तन्त्रराजवचनात् । न चास्य प्रकृतिप्रकरणे पाठात्क्रमपूजाङ्गत्वेन चोदकविरहितायामपूर्वपूजायां कथं प्राप्तिरिति वाच्यम् । प्रधानभूतायाः पूजाया अपूर्वत्वेऽपि तदङ्गभूतोपचाराणां प्राकृतोपचारविकृतित्वादितिकर्तव्यताकाङ्क्षायां नामातिदेशस्योपचाराङ्गत्वेन धर्मप्रापकत्वे बाधकाभावात् । कथमन्यथा गृहमेधीयेऽप्याज्यभागाङ्गयाज्यानुवाक्यामन्त्राणां प्राप्तिः सङ्गच्छते । अत एवापूर्वेऽप्यवभृथे साङ्गप्रधानार्थस्य प्राकृतहोतृवरणस्याज्यभागाङ्गत्वेन प्राप्तिसम्भवात् 'न होतारं वृणीते' इति निषेधो युज्यत इत्युक्तं मिश्रः । एतेन नैवेद्याङ्गाचमनादिकमपि व्याख्यातम् । सम्पूज्येति ल्यप्प्रत्ययेन पूजनकरणकभावनायाः पाठकरणकभावनाङ्गत्वं विधीयते । पठेदित्यनेन तु पाठकरणिका प्रधानभावना | 'वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेति वाक्ये भावनाविशिष्टभावनान्तरविधिवत्पूजनकरणक- भावना - रूपाङ्गोत्तरकालिकेन नामसहस्रवता पाठेन रोगनाशादिरूपमिष्टं भावये दित्यर्थः । अत्र च ध्यात्वेति पदस्य पुनरन्वयात्तत्रत्यत्वाप्रत्ययस्य मुखं व्यादाय स्वपिती' त्यादाविव समान- कालिकत्वार्थकतया शत्रन्ते पर्यवसानाद्ध्यायन्पठेदिति सम्प्रदायः ॥ २५५ ॥ सर्वे रोगाः प्रणश्यन्ति दीर्घमायुश्च विन्दति । अयमायुष्करो नाम प्रयोगः कल्पनोदितः ॥ २५६ ॥
इष्टं विशिनष्टि - सर्वे रोगा इति । नश्यतिरिह ध्वंसप्रागभावादिसाधारणाभावमात्रपरः । दीर्घायुष्यं अपमृत्युकालमृत्युद्वयाभावौ । चकारात्सम्पदां ग्रहणम् । तेन
For Private and Personal Use Only