________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
333 नित्यमिति । पुण्यवासरे कपिलाषष्ठ्योदयादिदिवसे । वक्ष्यमाण- संक्रान्त्यादेरेव वा सामान्येन कीर्तनमिदम् । विषुवे मेषतुलाराश्योः सूर्यप्रवेशदिने । स्वजन्मत्रितये स्वस्य स्वभार्यायाः स्वपुत्रस्य च जन्मनक्षत्रेषु, स्वस्य जन्मकालीनं नक्षत्रं तत्पूर्वपरनक्षत्रे द्वे इत्येवं त्रितये वा, स्वस्य जन्मनक्षत्रमारभ्य गणनायां प्रथमदशमै कोनविंशनक्षत्रत्रयदिवसेषु वा, स्वजन्मदिवसदीक्षादिवस-पूर्णाभिषेकदिनत्रये वा । एवं व्याख्यावैचित्र्यस्थले यथासम्प्रदाय व्यवस्था । 'तन्त्राणां बहुरूपत्वात्कर्तव्यं गुरुसम्मत मिति वचनात् । अयने कर्कमकरयोः सूर्यप्रवेशदिने । संक्रान्त्यैव सिद्धे विषुवायनयोर्ग्रहणं गोबलीवर्दन्यायेन पुण्यतरत्वद्योतनेनात्यावश्यकताद्योतनाय वा, तत्तत्संक्रमणेभ्यः पूर्वं कतिपयैर्दिवसैस्तत्तदयनं ज्योति शास्त्रे प्रसिद्धं तदेव वेहायनपदेन विवक्षितम् ॥ २५३ ।।
नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे।
कीर्तयेन्नामसाहस्रं पौर्णमास्यां विशेषतः ॥ २५४ ॥ नवम्यां वेति वाकारोऽष्टमीसंग्रहार्थः । सितायामिति नवम्यादिषु तिसृष्वन्वेति । चतुर्दश्यामेव वा शुक्लपक्षीयायामित्यर्थः । अत्र चकाराद्यावज्जीवं प्रत्यहं कीर्तनाशक्तस्यैतेषु दिवसेषु समुच्चित्य कीर्तनम् । अत्राप्यशक्तश्चेदन्यतमं दिवसं परित्यजेदिति द्योतनाय वाकारः । अन्यतमस्य परित्यागपक्षेऽपि पौर्णमासी न परित्याज्येति द्योतयन्नाह-विशेषत इति । यदि च नवम्यादितिथिषु जन्मनक्षत्रं संक्रान्तिः शुक्रवारश्च भवति तदा तन्त्रेण सकृदेव नामसाहस्रपाठ इत्यादिकं न्यायविद्भिरूहनीयम् ॥ २५४ ॥
इयता प्रबन्धेन रहस्यत्तमत्वं ललिताप्रीतिकरत्वं चेति विशेषणद्वयं विविच्य इतोऽपि विस्तरेण तदेव विशेषणद्वयं विवेचयितुकामस्तयोः प्रथमस्य शरीरघटकेषु फलेषु रोगप्रशमनादेः प्रथमं निर्दिष्टत्वाद्रोगशमनादिचतुष्टयफलकं काम्यं प्रयोगं प्रथममाह द्वाभ्याम्
पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम् । पौर्णमास्यामिति । पौर्णमासीशब्दः शुक्लपक्षस्य चरमरात्रिपरः । 'दर्शादृष्टे'त्यनुवाके तादृशरात्रिमानत्वेन परिगणनात् । तेनास्मिन्प्रयोगे रात्रिव्यापिनी तिथिह्येति सिद्ध्यति । 'कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथि रिति वचनात्,
'यां तिथि समनुप्राप्य उदयं याति भास्करः। सा तिथिः सकला ज्ञेया स्नानदानव्रतादिषु ॥
For Private and Personal Use Only