________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
320
ललितासहस्रनामस्तोत्रम्
सहस्रनामान्तरेषु पादपूरणैकप्रयोजनको यथोपलभ्यते नात्र तथेत्यर्थः । नापि शब्देति । अर्थतस्तु यद्यपि पुनरुक्तिः 'अम्बा माताथ जननी देवेशी सुरनायिके त्यादौ दृश्यते तथापि नासौ सहस्रनामसंख्याविघातिका । नामशब्दस्य प्रतिपादकमात्रे शक्तेस्तद्भेदमात्रेण पृथक्त्वनिवेशित्वस्वाभाव्यायाः संख्याया अनुपरोधात् ॥ ३३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मतिवरदाकान्तादावकारयोगेन रक्तवर्णादौ । आकारस्य क्वचन तु पदयोर्योगेन भेदयेन्नाम ॥ ३४ ॥
ननु शाब्दतोऽपि पुनरुक्तिरुपलभ्यत एवेत्याशङ्कय परिहरति 'तुष्टिः पुष्टिर्मतिर्धृति'रित्यनेन पौनरुक्त्यपरिहाराय स्वाहा स्वधाऽमतिर्मेधे त्यत्राकारस्य योगेन प्रश्लेषेणामतिरिति पदच्छेदः कर्तव्यः । 'सदसत्क्षरमक्षर 'मित्यादौ विष्णुसहस्रनामसु मूर्तामूर्तेति प्रकृतनामस्वपि तस्य न्यायस्य क्लृप्तत्वात् । नहि सन्निकृष्टपदद्वय एव तथा नियम इत्यत्र प्रमाणमस्ति । पौनरुक्त्यपरिहाराकाङ्क्षाया अविशेषादिति भावः । एवं 'वरदा वामनयने 'त्यनेन पौनरुक्त्याभावाय विश्वगभी स्वर्णगर्भाऽवरदा वागधीश्वरीत्यत्रावरदेति छेदः ।
'कलावती कलालापा कान्ता कादम्बरीप्रिया । कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा ॥'
इत्यनयोरन्यतरस्मिन्कान्तापदेऽकारप्रश्लेषः । आदिपदेन नित्यतृप्तादेः परिग्रहः । 'नित्यतृप्ता भक्तनिधिः', 'मूर्तामूर्ता नित्यतृप्ते 'त्यत्र तदावश्यकत्वात् । 'रक्तवर्णा मांसनिष्ठेत्यनेन पौनरुक्त्यात् विशुद्धचक्रनिलयाऽरक्तवर्णा त्रिलोचने त्यत्राप्यनेन न्यायेनाकारप्रश्लेषे प्राप्तेऽर्थानुगुण्याय दीर्घाकार: प्रश्लेषणीय इत्याह-- रक्तवर्णादावाकारस्येति | आदिना
'सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका । सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा ॥'
इत्यनयोः शोभना आशोभनेति पदयोः परिग्रहः । ननु तथापि सुखाराध्या शुभकरी शोभना सुलभा गति'रित्यत्र तृतीयवारं श्रुतस्य शोभनपदस्य का गतिरित्याशङ्कयाहक्वचनेति । पदयोर्भिन्नत्वेन वर्णयितुं शक्ययोरपि व्यायोगेन समासव्यासान्यतररूपेण नाम भेदयेदित्यन्वयः । 'शोभनासुलभागतिरिति पदत्रयस्यैकनामत्वम् । एवं 'कौलिनीकेवला, अजाजेत्री त्यादौ समासरूपो योगो द्रष्टव्यः । पदद्वयस्याप्येकनामत्वम् 'विश्वेदेवाः अहिर्बुध्न्यः निधिरव्यय' इत्यादौ दृष्टमिति भावः ॥ ३४ ॥
साध्वी तत्त्वमयीति द्वेधा त्रेधा बुधो भिद्यात् । चानर्थ्येत्यार्धान्तादेकनामैव ॥ ३५ ॥
हंसवती
For Private and Personal Use Only