SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर - बालातपासहितम् 'कालव्यूहः कुलव्यूहो नामव्यूहस्तथैव च । ज्ञानव्यूहस्तथा चित्तव्यूहः स्यात्तदनन्तरम् ॥ नादव्यूहस्तथा बिन्दुव्यूहः स्यात्तदनन्तरम् । कल्पाव्यूहस्तथा जीवव्यूहः स्यादिति ते नव ॥' Acharya Shri Kailassagarsuri Gyanmandir इति च । एतल्लक्षणानि च सौन्दर्यलहर्याम्- 'तवाज्ञाचक्रस्थ 'मिति श्लोकव्याख्यानावसरे लल्लेन प्रपञ्चितानि । यद्वा । गुणो रज्जुः सा चेह नौकाबन्धनी वटीरिकानाम्नी लक्षणया गृह्यते । सा नितरां धीयतेऽस्यामिति गुणनिधिः । एवं हि मात्स्यकालीपुराणयोः कथा स्मर्यते । प्रलयकाले मनुना भगवदाज्ञानुसारेण सर्वाणि बीजानि ऋषींश्च नौकायां निवेश्य मत्स्यावतारस्य भगवतः शृङ्गे सा नौका रज्ज्वा बद्धा । सा रज्जुरम्बयाधिष्ठिता सती दाढमापेद इति । तदुक्तम् 'नवयोजनदीर्घा तु यामत्रयसुविस्तृताम् । कुरुष्व चर्मणा तूर्णं बृहतीमिरिकावटिम् ॥ जगद्धात्री महामाया लोकमाता जगन्मयी । दृढयिष्यति तां रज्जुं न त्रुट्यति यथा तथा ॥ इति । अनेकार्थध्वनिमञ्जरी च इति मनुंप्रति विष्णोर्वचनेन । तत्रैव स्थलान्तरे - 'योगनिद्रा जगद्धात्री समासीदद्वटीरिका'मिति । गवां धेनूनां माता सुरभिरूपा । सम्भवन्तोऽन्येऽपि गोपदस्यार्था वागादयो ग्राह्याः । तथा च विश्वः 'गौः स्वर्गे वृषभे रश्मौ बजे चन्द्रमसि स्मृतः । अञ्जनीनेत्रदिग्बाणभूवाग्वारिषु गौर्मता ॥ 'बाणे वाचि पशौ भूमौ दिशि रश्मौ जलेऽक्षिणि । स्वर्गे मातरि वज्रेऽग्नौ मुखे सत्ये च गोध्वनिः ॥ इति ॥ १७२ ॥ 209 इति । गुहस्य स्कन्दस्य जन्मभूरुत्पत्तिस्थानम् । यद्वा 'गुहू संवरण' इति धातोर - विद्यासंवृता गुहा जीवाः तेषां जन्मस्थानम् । 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्तीत्यादिश्रुतेः। याज्ञवल्क्यस्मृतिरपि - 'निःसरन्ति यथा लोहपिण्डात्तप्तात्स्फुलिङ्गिकाः । प्रभवन्ति हि ॥ सकाशादात्मनस्तद्वदात्मानः For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy