________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपोद्घाताख्या प्रथमा कला
॥ श्रीललिताम्बायै नमः॥ श्रीगम्भीरविपश्चितः पितुरभूयः कोनमाम्बोदरे
विद्याष्टादशकस्य मर्मभिदभूयः श्रीनृसिंहागुरोः । यश्च श्रीशिवदत्तशुक्लचरणैः पूर्णाभिषिक्तोऽभव
त्स त्रेता त्रिपुरा त्रयीति मनुते तामेव नाथत्रयीम् ॥ १॥ गुरुचरणसनाथो भासुरानन्दनाथो विवृतिमतिरहस्यां वीरवृन्दैनमस्याम् । रचयति ललिताया नामसाहसिकाया गुरुकृतपरिभाषाः संविवृण्वन्नशेषाः ॥२॥ अष्टाभिर्वाङ्मयानामधिपतिभिरमोघोक्तिभिर्देवताभि
र्मात्राज्ञप्ताभिरग्नं यदरचि ललितादिव्यनाम्नां सहस्रम् । यद्ब्रह्माणीरमेशप्रभृतिदिविषदां विस्मयाधानदक्षं
तत्रैकस्यापि नाम्नः कथमिव विवृतिं मादृशः कर्तुमीष्टे ॥३॥ तथापि श्रीमात्रा दहरकुहरे सूत्रधरया
समाविष्टा वाचामधिपतिषु काप्यन्यतमिका । मदीड्यश्रीनाथत्रयचरणनिर्णेजनजलैः
पवित्रे जिह्वाने नटति ममता सा मम मता ॥ ४ ॥ आप्राच:कामरूपाहुहिणसुतनदप्लावितादाप्रतीचो
गान्धारात्सिन्धुसााद्रघुवररचितादा च सेतोरवाचः। आकेदारादुदीचस्तुहिनगहनतः सन्ति विद्वत्समाजा
ये ये तानेष यत्नः सुखयतु समजान्कश्चमत्कर्तुमीष्टे ॥५॥
इह खलु निखिलपुरुषार्थसाधने भगवत्याराधनेऽभ्यर्हिततमस्य रहस्यनामसहस्रकीर्तनस्य रहस्यतरसद्गुरुसम्प्रदायैकवेद्यस्वरूपत्वेन तान्सम्प्रदायान् शिष्यानुजिघृक्षया दिदर्शयिषवः श्रीमन्नृसिंहानन्दनाथनामानोऽस्मद्गुरुचरणा: निरन्तरनिरन्तराया अपि शिष्यशिक्षायै मङ्गलमाचरन्ति
त्रिपुरां कुलनिधिमीडेऽरुणश्रियं कामराजविद्धाङ्गीम् ।
For Private and Personal Use Only