________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
105
इति । भ्रूमध्यादष्टमं स्थानं ब्रह्मरन्ध्रादधस्तनम् । मनोन्मनीति कथितं तद्रूपा । तत्स्वरूपं स्वच्छन्दसंग्रहे
'या शक्तिः कारणत्वेन तदूर्ध्व चोन्मनी स्मृता । नात्र कालकलामानं न नत्त्वं न च देवता ॥ सुनिर्वाणं परं शुद्धं रुद्रवक्त्रं तदुच्यते ।
शिवशक्तिरिति ख्याता निर्विकल्पा निरञ्जना ॥ इति । अतएव 'वामदेवाय नमो ज्येष्ठाय नम' इति श्रुतौ प्रसिद्धस्य मनोन्मनाख्यशिवस्य शक्तिरिति च । त्रिपुरोपनिषद्यपि
'निरस्तविषयासङ्ग सन्निरुद्धं मनो हृदि ।
यदायात्युन्मनीभावं तदा तत्परमं पदम् ॥ इति । योगशास्त्रे मुद्राविशेषस्य संज्ञा । तल्लक्षणं तत्रैव
'नेत्रे ययोन्मेषनिमेषमुक्ते वायुर्यया वर्जितरेचपूरः ।
मनश्च सङ्कल्पविकल्पशून्यं मनोन्मनी सा मयि सन्निधत्ताम् ॥ इति । बृहन्नारदीयेऽपि
'ध्यानध्यातृध्येयभावो यदा पश्यति निर्भरम् ।
तदोन्मनत्वं भवति ज्ञानामृतनिषेवणात् ॥' इति । मनास्युन्मन्यन्ते उत्कृष्टज्ञानयुक्तानि कुरुत इति वा । सन्धिरार्षः ।
माहेश्वरी महादेवी महालक्ष्मीर्मुडप्रिया ॥ १०४ ॥ 'यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥' इति श्रुतिप्रसिद्धस्य महेश्वरपदस्य त्रिगुणातीतत्वं शक्यतावच्छेदकम् । तदुक्तं लैङ्गे
'तमसा कालरुद्राख्यो रजसा कनकाण्डजः।
सत्त्वेन सर्वगो विष्णु¥र्गुण्येन महेश्वरः ॥' इति । अविच्छिन्नत्वमत्र तृतीयार्थः । महेश्वरपदस्य तद्वाच्ये लक्षणा | कालरुद्राख्य इत्युपक्रमानुसारात् । तेन तदवच्छिन्नो महेश्वरः ।
____ महेश्वरस्येयं माहेश्वरी । ईश्वर्यै इति ॥ महती प्रमाणैरपरिच्छिन्ना देवी द्योतनशीला | देव्यै इति ॥ महती चासौ लक्ष्मीः च । लक्ष्म्यै इति ॥ मृडस्य परशिवस्य प्रिया । प्रियायै इति ॥ १०४॥
For Private and Personal Use Only