SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्भुतपद्मावतीकल्पे [श्लोकाः ४।१५शान्त्य्युच्चाटन-मारण-विद्वेषाकृष्टि-वश्य-संस्तम्भाः । उदधि-मरुद्वर-वसु-यम-सोमाऽमरदिक्षु नैते पुष्टिः ॥ १५ ॥ रोध-प्रथन-विदर्भण-दीपन-पल्लवसम्पुटैः क्रियते। वध-नाशा-कृष्टि-स्तम्भन-शान्ति-विद्वेषण-वशीकृतिविधानम् ॥१६॥ आदौ मध्ये चान्ते नामनिवेशो हि रोध आख्यातः । वर्णान्तरितं प्रथनं द्विवर्णमध्ये विदर्भश्च ॥१७॥ आदौ दीपनमन्ते सुपल्लवः सम्पुटं तदन्तरगम् । एवं षट्कर्मकृति शात्या मन्त्री जपेन्मन्त्रम् ॥१८॥ ब्रह्मादिपाशकाङ्कुशमाया वागवीजचित्तनाथमथ । ह्रौं षान्तयुतं पद्मावत्यै नम एवमादिमं मन्त्रम् ॥१९॥ ज्ञेयं मन्त्रस्यान्ते जाप्ये समये सदा नमःशब्दः । स्वाहा तु होमकाले मन्त्रस्यासौ क्रमः प्रोक्तः ॥२०॥ वश्ये वषडुच्चाटे फट् हुँ द्वेषे च शान्तिके स्वाहा ।। आकृष्टौ चौषट् घे मारे पौष्टौ स्वधेति मन्त्री ते ॥२१॥ अङ्गुष्ठादावङ्गुलिमणयोऽङ्गुष्ठेन संविवर्त्यन्ते । मोक्षाभिचार शान्तिकवशीकराकृष्टिकरणविधौ ।।२२।। पूर्वमभिमन्व्य सलिलं मन्त्रेणायेन सप्तवारं हि । भूम्युपकरणादीनां शुद्धिं विदधातु सिद्धये मन्त्री ॥२३॥ निर्दोषपट्टममलं धौतं शुचिवारिणा च विन्यस्य । रोचनचन्दनकुमघनसारप्रभृतिसुरभिभिलिप्तम् ॥२४॥ निर्याति मरुति मन्त्री शतपत्रकविमलवृन्तकाग्रेण । मौनावलम्बनिरतो मण्डलमेवं न्यसेत् तत्र ॥ २५ ॥ सोल्लोचमण्डपलसत्केतुपताकादिमण्डितं विपुलम् । विदिशि निवेशितकुम्भ सन्मुसलमथ भूततोरणकम् ॥२६॥ युग्मम् ॥ पूर्वाग्नियमनैर्ऋतपश्चिमवायत्तरेशदिक्चक्रम् ।। "तत्त्वादिनमोऽन्तयुतं सृष्टया स्थाप्यं क्रमानिखिलम् ॥२७॥ "श्रीवागबीजकमायाधरणेन्द्राय नम एव पाताले । स्वर्गाय नमोऽत्रादिमबीजेन्द्राय नम एव ततः ॥२८॥ १ पश्चिम-वायव्यकोण-ईशान-आग्नेय-दक्षिण-उत्तर-पूर्वदिक्षु । २ उच्चाटनम् । ३ गोरोचना। ४ ईश-ईशानदिक् । ५ ॐकारः । ६ वाग्बीजं-ऐङ्कारः, माया तु ह्री, श्रीऐंही धरणेन्द्राय नमः, पातालाय नमः इत्याम्नायः । ७ श्रीही इन्द्राय नमः । For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy