________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ श्लोका ४४२
देव्यर्चनाक्रमाधिकारः द्विपुटितवह्निपुरान्तः सप्तफटाराजिमुखकमलम् । नीलोत्पलदलदेहं सश्रीकं न्यस्य पार्श्वजिनम् ॥ २९ ॥ तदधः सुधाङ्गधवलां चतुर्भुजां लोचनत्रिकोपेताम् । मन्त्रात्मिकां न्यसेत् श्रीसुभगां पद्मावती देवीम् ॥३०॥ युग्मम् तत्पूर्वकोणमुख्यात् 'तेजो-माया-स्मरादिपूर्वनमः । नित्या क्लिन्नाथ मदा स्यादुन्मादा द्रवादवा ॥३१॥ स्यात् तत्परितो वलयेऽन्तनमः षण्मुख्यमन्त्रवर्णाद्याः। कामा-कुसुमाऽनङ्गा प्रत्येकं बाणपूर्विकान्येवम् ॥ ३२ ॥ षोडशकोष्ठे तदुपरि मायाद्यन्तनमोयुताः क्रमशः । रोहिण्या प्रज्ञप्ती "पविपूर्वा शृङ्खलांकुशा चक्रा ॥ ३३ ॥ मानवदत्ता काली महायुताऽन्या च गौरी स्यात् । गन्धारी जालन्धरी वैरोट्या मानवी तथाऽच्छुप्ता ॥३४॥ मानस्यसावपि महायुक्ता चेति देवता द्वयष्टौ । त्रिवलयमध्ये तदुपरि दण्डेशा विशदेवतायाः स्युः ॥३५॥ करिराजपद्मदेवासिखिजालौ शोणितांशनाशाडैः । केशिश्चण्डः कर्दभभुवनभ्रमणा महारक्तः ॥३६॥ कृष्णो विजयः सिंहः सुस्निग्धो रुद्र जम्भवौ सृष्टया । सिद्धार्थश्चेति नमः प्रान्ता हीमादयश्चैते ॥३७॥
तदुपरि युगवलये श्रीदेव्याः सख्यश्चतुविशाः । "मायादिजया विजया च जयन्त्यपराजिता च मन्दा च ॥३८॥ भद्रा रुद्रा च करालिका च योगिन्यथ शिवा च । सा नन्दाऽथो अमला कमला पद्मा 'महागययोगिन्यः ॥३९॥ "सुयुते यन्त्रारूपे चित्रा वियुता परा च जम्मा च । स्तम्भा दम्भा मोहा सिद्धेति नमोऽन्तका चेति ॥४०॥ पञ्चमवलये ततः पद्मावत्यङ्गरक्षकाः सुभगाः। तुर्यसहस्रा निजनिजशस्त्रयुताः स्युः ससोममुखाः ॥४१॥ देवीसख्यस्त्रयष्टावासां प्रत्येकमस्ति परिवारः ।
पञ्चशतसंख्ययुक्त ज्ञेयस्तत्रैव गुरुवचनात् ॥४२॥ १ तेज इति ॐकारः । २ ॐहीं क्लीं नित्यायै नमः । ३ कामबाण इत्यादि । ४ हीरोहीणी नमः। ५ वज्रशृङ्खला, वज्राङ्कुशी । ६ चतुर्थवलये । ७ पद्मावत्याः। ८ हीजयाय नमः । ९ महायोगिनी। सुयन्त्रा, सुरूपा ।
For Private And Personal Use Only