________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्भुतपद्मावतीकल्पे [श्लोकाः ४।४३षष्ठम(8)वलये तदुपरि पद्मावत्या हि पञ्चशतचेट्यः । नानाभरणविभूषितगात्रा न्यस्याः सुरूपयुताः ॥४३॥ सप्तमवलये देव्या दण्डेशा विंशतिस्त्वमीषां स्यात् । प्रत्येक परिवारस्तुर्यसहस्रो महासुभटः ॥४४॥ देव्या अष्टमवलये द्वाःस्थः श्रीमाणिभद्रपरिवारः । पञ्चसहस्रो वीरः संस्थाप्यो मन्त्रिभिर्गुरुतः ॥४५॥ 'पञ्चदशदशमवणैर हिताः क्षयुताश्च तत्र युक्तम्ल्यूँ । व्यञ्जनवर्णाः सृष्टया क्रमशः स्थाप्या ध्रुवं स्वस्थाः ॥४६॥ वामेऽ'वामेधस्तान्मूनि प्रत्यङ्गिराम्बिका ज्वाला । चक्रान्तनमो विधिना श्रीमायाकामबीजमुख्याश्च ॥४७॥ रवि-शशि-मङ्गल-बुध-गुरु-शुक्र-शनैश्चर-राह-केत्वाख्याः । 'तेजस्त्रिमूर्तिपूर्वान्तनमोऽधस्तान्नव ग्रहाः क्रमशः ॥ ४८ ॥ वाग्बीजकश्रीतत्त्वाद्यान्तनमः स्युस्त्वनन्तवासुकिनौं । तक्षक-कर्कोटक-कमल-महाकमल-शव-कुलि-जयास्तद्धः ॥ ४९ ॥ श्रीइन्द्रनन्दिमुख्या गुरवः स्थाप्याः क्रमेण तदधस्तु । निजगुरुकथिताः शिष्यैरवलम्बितमौनमतिनिपुणैः ॥ ५० ॥ संस्थाप्यैवं मण्डलमथेप्सितासनसमाश्रितो ध्यायेत् । दन्तैर्दन्तान् बहुशस्त्वसंस्पृशन्निति महामन्त्री ॥ ५१ ॥ नाभ्युद्गताष्टपत्रककमलप्रान्तस्थितां सुधाशुद्धाम् । त्रिफणाहिभूषिततमस्फारशिरस्का शुभाङ्गधराम् ॥ ५२ ॥ पद्माङ्कुशवरपाशकसम्भूषितभुजचतुष्टयां हृष्टाम् । अम्भोजासनसंस्थां श्रीपद्मां देवतां स्थिरधीः ॥ ५३ ॥ शुभ्राम्बरपरिधानां दन्तच्छेदामहंससंरूढाम् । ध्यानविधानेनान्तः श्रीपनां देवतां स्थिरधीः (ध्यायेत्) ॥ १४ ॥
चतुभिः कलापकम् । पञ्चोपचार पूजामस्येति करोतु चाहानम् ।। स्थितिसन्निधिकरणे द्वे पूजां विसर्जनं प्राहुः ॥ ५५ ॥ आदिमबीजाद् देव्याः सम्बोधनमेहि पहि संवौषट् ।
आह्वाननमिदममुना मन्त्रेण करोतु कुसुमाद्यैः ॥ ५६ ॥ १ णो वर्जयित्वा । २ दक्षिणे । ३ ॐ ह्रीं क्लौं प्रत्यङ्गिरायै नमः। ४ ॐ ह्रीं रवये नमः इतिग्रहस्थापना । ५ ॐ श्री हो वासुकिने नमः ।
For Private And Personal Use Only