________________
Shri Mahavir Jain Aradhana Kendra
१०/४३]
www.kobatirth.org
गारुडतन्त्राधिकारः १० ।
मुनियगन्धाघोषा वन्ध्या कटुतुम्बिका कुमारी च । त्रिकटुककुष्ठेन्द्रयवा घ्नन्ति विषं नस्यपानेन ॥३९॥
Acharya Shri Kailassagarsuri Gyanmandir
'मुनिः' अगस्तिः । 'हयगन्धा' अश्वगन्धा । 'घोषा' देवदाली । 'वन्ध्या' कर्कोटी । 'कटुतुम्बिका' कटुकालाबुका | 'कुमारी' गृहकन्या । 'त्रिकटुकं' त्र्यूषणम् । 'कुष्ठम् ' रुक् । 'इन्द्रयवा ' कुटजबीजम् । 'घ्नन्ति' नाशयन्ति । 'विषं' स्थावरजङ्गमविषम् । कथम् ? 'नस्यपानेन' एतदोषधानां नस्येन पानेन च सर्वे विषं नश्यति ॥ द्विपमलभृतच्छत्त्रं रविदुग्धं श्लेष्मतरुफलोपेतम् । वृश्चिकविषसङ्कामं बदरीतरुदण्डसंयोगात् ॥ ४० ॥
षट्कोणभवनमध्ये कुरुकुलां यो लिखेद् गृहे विद्याम् । तत्र न तिष्ठति नागो लिखिते नागारिबन्धेन ॥ ४१ ॥
'द्विपमलभूतच्छत्त्रं' द्विरदमलोद्भूतच्छत्रम् । 'रविदुग्धं' मार्तण्डक्षीरम् । श्लेष्मतरुफलोपेतम्' श्लेष्मातकफलचिक्कान्वितम् । 'वृश्चिकविषसंक्रामं' वृश्चिकविषोत्तारणं अन्येषां विषसंक्रामम् । 'बदरीफलदण्डसंयोगात्' पुष्यार्के ऊर्ध्वाधोगतकण्टकद्वयान्वितबदरीशलाकां गृहीत्वा तदौषधत्रयलेपं कृत्वा ऊर्ध्वकण्टकेनोत्तार्य अधोगतकण्टकेन अन्योऽन्यं संक्रामति ॥
७१
'षट्कोणभवनमध्ये' षट्कोणचक्रमध्ये | 'कुरुकुल्लां' कुरुकुल्लानामदेव्या मन्त्रः । 'यो लिखेद्' यः कोऽपि मन्त्रवादी लिखेत् । क्व ? ‘गृहे' गृहदेहल्याम्, स्ववासोत्तराङ्गे । काम् ? 'विद्याम् ' कुरुकुल्लादेव्या विद्याम् । 'तत्र' तस्मिन् गृहे । 'न तिष्ठति' न स्थाति । कः ? 'नाग : ' सर्पः । कस्मिन् कृते सति ? 'लिखिते' सति । केन ? 'नागारिबन्धेन' गरुडबन्धेन ॥
कुरुकुले ! हूं फट् ॥
मन्त्रः इदानीं मण्डलोद्धारणमभिधीयते
चतुरस्रं मण्डलमतिरमणीयं पञ्चवर्णचूर्णेन ।
प्रविलिख्य चतुःकोणे तोयभृतान् स्थापयेत् कलशान् ॥ ४२ ॥
For Private And Personal Use Only
'चतुरस्रं' समचतुरस्रम् | 'मण्डलं' वक्ष्यमाणमण्डलम् | 'अतिरमणीयं' अत्यन्तशोभमानम् । 'पञ्चवर्णचूर्णेन' श्वेतरक्तपीतहरितकृष्णमिति पञ्चवर्णचूर्णेन । 'प्रविलिख्य' प्रकर्षेण लिखित्वा । 'चतुः कोणे' तन्मण्डलचतुः कोणे । 'तोयभृतान्' जलपरिपूर्णान् । स्थापयेत् । कान् ? 'कलशान्' कुम्भान् ॥
तस्योपरि विपुलतरं मण्डपमतिसुरभिपुष्पमालिकाकीर्णम् । चन्द्रोयकध्वजतोरणघण्टारवदर्पणोपेतम् ॥४३॥
'तस्योपरि' तन्मण्डलोपरि । 'विपुलतरं' अतिविस्तीर्णम् । 'मण्डपं' । कथम्भूतम् ? 'अतिसुरभिपुष्पमालिकाकीर्णम्' । पुनः कथम्भूतम् ? 'चन्द्रोयकध्वजतोरणघण्टारवदर्पणोपेतम्' वितानध्वजवन्दनमालाक्षुद्रघण्टिकाविशिष्टदर्पणान्वितम् ॥