________________
Shri Mahavir Jain Aradhana Kendra
७०
www.kobatirth.org
afaaरणे भैरवपद्मावतीकल्पे
[ श्लोकाः १०/३५
'हाँ ही गरुडाज्ञा ठठेति' उहाँ ह्रीं गरुडाज्ञा ठठ इत्यनेन मन्त्रेण । 'तन्मुद्रया' गरुडमुद्रया । ' कृतां रेखां' मन्त्रिणा भूमौ कृतां रेखां । 'भुजगो मरणावस्थः ' सर्पों मरणावस्थां प्राप्तः । 'न लङ्घते' लङ्घनं कर्तुं न शक्नोति । 'कदाचिदपि कस्मिंश्चित्कालेऽपि ॥
मन्त्रोद्वार:- हाँ ह्रीं गरुडाय ठठ ।। इति रेखामन्त्रः ||
कपिकच्छ्ररसभावितखटिका प्रणवादिनील परिजप्त्वा । लेख्यस्तयोपदेशात् खटिकासर्पः शनेवरे ॥३५॥
'कपिकच्छूर सभावितखटिका' कण्डुकरीरसेन सप्तवारं भाविता खटिका । 'प्रणवादिनील परिजप्त्वा' सा खटिका प्रणवादि-नीलमन्त्रेण समं जप्त्वा । 'लेख्यस्तया' खटिकया लेखनीयः । कथम् ? 'उपदेशात्' उपदेशपूर्वेण । कः ? 'खटिकासर्पः' तत्खटिकालिखितसर्पः । कस्मिन् ? ' शनेवारे' शनिदिने ||
मन्त्रोद्धारः -- नीलविषमहाविषसर्पसंक्रामणि ! स्वाहा ।। इति विषसंक्रामणमन्त्रः ॥
यो हन्यात् तद्वक्त्रं खटिकासर्पो दशति नात्र सन्देहः । दृष्ट्वा करतलदशनं मूर्च्छति विषवेदनाकुलितः ॥ ३६ ॥
'यो हन्यात् तद्वक्त्रं खटिकासर्पों दशति नात्र संदेह:' अत्र खटिकासर्पविधाने सन्देहो न कार्यः । 'दृष्ट्वा करतलदशनं' तत्सर्पदशनदंशं करतले दृष्ट्वा । 'मूर्च्छति' पुरुषो मूर्च्छा प्राप्नोति । कथम्भूतः ? 'विषवेदनाकुलितः' विषजनितवेदनाकुलितः । इति खटिकासर्पकौतुक विधानम् ॥
♡
को प्रोत्री ठः मन्त्रेण विषं हूँकारमध्यगं जप्त्वा । सूर्यं दृशावलोक्य भक्षयेत् पूरकात् ततः ॥ ३७ ॥
अतः परं मूलविषविधानमभिधीयते—
Acharya Shri Kailassagarsuri Gyanmandir
'ठ मन्त्रेण' अनेन मन्त्रेण । 'विषं' स्थावरविषम् । कथम्भूतम् ? ' हुँकारमध्यगम् करतलहँकारमध्ये स्थितं विषं कथितमन्त्रेण । 'जप्त्वा ' अभिमन्त्रय । 'सूर्य' रविं । 'दृशावलोक्य' दृष्टया निरीक्ष्य | 'भक्षयेत्' विषभक्षणं कुर्यात्। कथम् ? 'पूरकात् ततः पूरकयोगात् ॥
मन्त्रोद्धारः - 3 को प्रो त्री ठः ॥ इति विषभक्षणमन्त्रः ॥
प्रतिपक्षाय दातव्यं ध्यात्वा नीलनिभं विषम् । ग्लौं ह्रौं मन्त्रयित्वा तु ततो घे घेति मन्त्रिणा ॥३८॥
'प्रतिपक्षाय' शत्रुलोकाय । 'दातव्यं' देयम् । 'ध्यात्वा' ध्यानं कृत्वा । कथम्भूतम् ? 'नीलनिभम्' नीलवर्णस्वरूपम् । किम् ? ‘विषं’ मूलविषम् । किं कृत्वा ? 'ग्लौं ह्रौं मन्त्रयित्वा' इतिमन्त्रेणामिमन्त्र्य । 'तु' पुनः । ‘ततः' ग्लौं ह्रीँ इति बीजद्वयात् । 'घेघेति' घे घे इति पदं जपित्वा । केन ? 'मन्त्रिणा' मन्त्रवादिना ॥
मन्त्रोद्धारः - ग्लाँ हाँ घे घे ॥
॥ इति प्रतिपक्षाय नीलध्यानेन युक्तविषदानमन्त्रः ॥
For Private And Personal Use Only