SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०.३४] गारुडतन्त्राधिकारः१०। मन्त्रोद्धार:- नमो भगवते पार्श्वतीर्थङ्कराय हंस: महाहंसः पद्महंसः शिवहसः कोपहंसः उरगेशहंसः पक्षि महाविषभक्षि हुँ फट ।। इति निर्विषीकरणमन्त्रः ।। तेजो नमः सहस्रादि मन्त्रं प्रपठतः फणी । ___ अनुयाति ततः पृष्ठं याहीत्युक्ते निवर्तते ॥३०॥ 'तेजो नमः सहस्रादि मन्त्रं प्रपठतः'ॐ नमः सहस्रजिह्वे ! इत्यादि मन्त्रं प्रपठतः पुरुषस्य। 'फणी' सर्पः। 'अनुयाति ततः पृष्ठं' तन्मन्त्रपठितपुरुषस्य पृष्ठमनुगच्छति । 'याहीत्युक्ते निवर्तते' स एव सर्पः पुनरपि याहीत्युक्ते व्याघुटय गच्छति ।। तन्मन्त्रोद्धारः-* नमो सहस्रजिहे. कुमुदभोजिनि ! दीर्घकेशिनि : उच्छिष्टभक्षिणि : स्वाहा ।। ___ इति नागसहागमनमन्त्रः ।। न ही श्री ग्लो हुँ छू टान्तद्वितयेन फणिमुखस्तम्भः । हुँ छू ठठेति गमने दृष्टिं हाँ क्षाँ ठठेति बध्नाति ॥३१॥ 'ॐ ह्रीं श्रीं ग्लो हुँ । ‘टान्तद्वितयेन' ठठेति मन्त्रेण । 'फणिमुखस्तम्भः' अनेन मन्त्रेण सर्पमुखस्तम्भो भवति। “हुँ झू ठठेति गमने' हुँ झूठ ठ इत्यनेन मन्त्रेण सर्पस्य गतिस्तम्भो भवति । 'दृष्टिं हाँ हाँ ठठेति बध्नाति' सर्पस्य दृष्टिं हाँ क्षा ठ ठ इति मन्त्रेण बध्नाति ॥ ॥ इति फणिमुख-गति-दृष्टिस्तम्भनविधिः ।। वामं सुवर्णरेखाया गरुडाज्ञापयत्यतः । स्वाहान्तं मन्त्रमुच्चार्य कुण्डलीकरणं कुरु ॥३२॥ 'वामं सुवर्णरेखायाः' सुवर्णरेखाया इति पदम् । 'गरुडाज्ञापयत्यतः' सुवर्णरेखापदानन्तरं गरुडाज्ञापयतीति पदम् । 'स्वाहान्तं मन्त्रमुच्चार्य स्वाहाशब्दमन्ते कृत्वा तन्मन्त्रं पठित्वा । 'कुण्डलीकरणं कुरु' । मन्त्रोद्धारः-3 सुवर्णरेखाया गरुडाज्ञापयति कुण्डलीकरणं कुरु कुरु स्वाहा ।। सप्रणवः स्वाहान्तो ललललललसंयुतः करोत्येषः । मन्त्रो घटप्रवेशं क्षणेन नागेश्वरस्यापि ॥३३॥ 'सप्रणवः स्वाहान्तः ॐकारादिः स्वाहाशब्दान्त्यः । 'ललललललसंयुतः' लललललल इत्यक्षरैः षडभिर्युक्तः। 'करोति' कुरुते। 'एषः मन्त्रः' एतत्कथितमन्त्रः। किं करोति? 'घटप्रवेश' कुम्भप्रवेशं। 'क्षणेन' क्षणमात्रेण । कस्य ? 'नागेश्वरस्यापि' नागाधिपस्यापि क्षणेन घटप्रवेशं करोति ।। मन्त्रोद्वार:- लललललल स्वाहा ।। फणिकुम्भप्रवेशनमन्त्रः।। न हाँ ही गरुडाज्ञा ठठेति तन्मुद्रया कृतां रेखाम् । भुजगो मरणावस्थां न लते तां कदाचिदपि ॥३४॥ १ फट् स्वाहा इति ख पाठः। For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy