________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविवरणे भैरवपद्मावतीकल्पे [प्रलोकाः १०२६इदानीं दूतपातनविधानमभिधीयते
फणिदष्टस्य शरीरादोंस्वाहामन्त्रतो विषं हृत्वा।
सोमं श्रवललाटाद् दूतं मन्त्रेण पातयेत् ॥२६॥ ‘फणिदष्टस्य शरीरात्' सर्पदष्टस्य पुरुषस्य शरीरात् । ' स्वाहा मन्त्रतः' 3 स्वाहेति वक्ष्यमाणमन्त्रात् । 'विषम्'दष्ट पुरुषदेहस्थं विषम् । 'हत्वा' अपहृत्य । कथम् ? 'सोमं श्रवत्' अमृतं श्रवमाणम् । कस्मात् ? 'ललाटात्' भालस्थलात् । 'दूत' प्रेषकम् । 'मन्त्रेण पातयेत्' पातयितव्यः ।।
एतन्मन्त्रोद्वार:- स्वाहा इत्यनेन मन्त्रेण विषमाह्रियते।
ॐ नमो भगवते वज्रतुण्डाय स्वाहा रक्ताक्षि कुनखि दूतं पातय पातय मर मर धर धर ठ ठ ठ हुँ फट घे घे ॥ इति दूतपातनमन्त्रः ।
न लामों फड् मन्त्रोच्चारणतः पतति भोगिना दष्टः ।
न होमादिफडन्तो दष्टपटच्छादनो मन्त्रः ॥२७॥ * लामों फड् मन्त्रोच्चारणतः'। इत्यनेन मन्त्रोच्चारणेन भूमौ पतति । कः ? 'भोगिना दष्टः' सर्पण दष्टपुरुषः। ' होमादिफडन्तः' स्वाहा शब्दमादिं कृत्वा फटशब्दान्तः-वक्ष्यमाणमन्त्रः। 'दष्टपटच्छादनो मन्त्रः' पतितदष्टपुरुषस्य शरीरोपरिवस्त्रच्छादनमन्त्रः ।
मन्त्रोद्धार:- लाँउ फडू इति दष्टपातनमन्त्रः। 7 स्वाहा रु रु रु १ हो प्लं सर्व हारय संहारय । यु न नैं गरुडाक्षि नैं फट ॥ इति दष्टपटच्छादनमन्त्रः ।।
पवननभोऽक्षरमन्त्रेणाकृष्य च धावते ततो वस्त्रम्।
अनुधावति तत्पृष्ठे यत्र पटः पतति तत्रासौ ॥२८॥ 'पवननभोऽक्षरमन्त्रेण' स्वाहेत्यक्षरमन्त्रेण। 'आकृष्य' तद्दष्टाच्छादनपटमाकृष्य । 'धावते' धावन करोति । 'ततः' तस्मात् । 'वस्त्र' आच्छादनपटम् । 'अनुधावति तत्पृष्ठम्' तस्त्रमाकृष्य यः पुरुषो धावति तत्पृष्ठं स दष्टः अनुधावति। 'यत्र पटः पतति तत्रासौं' यस्मिन् स्थले तद् गृहीतपटः पतति तत्रैवासौ दष्टः पतति ।। स्वाहेति दष्टाच्छादितपटाकर्षणमन्त्रः ।।।
मन्त्रेणानेन फणी विषमुक्तो भवति जल्पितेन शनैः।
अपहरति निजस्थानादशितेऽपि विषं न समते ॥२९॥ 'मन्त्रेणानेन' अनेन कथितमन्त्रेण । 'फणी विषमुक्तो भवति' सपों विषमुक्तो भवति । केन ? 'जल्पितेन' वक्ष्यमाणमन्त्रपठनेन । 'शनैः' शनैरपि । 'अपहरति निजस्थानात्' स्वकीयस्थानात् तद्दष्टस्य विषापहारो भवति । 'अशितेऽपि विषं न सडूमते' सर्पण भक्षितेऽपि सति तस्य पुरुषस्यापि विषसङमो न भवतीति निर्विषीकरणम् ॥
१ क्षक्षक्षक्षक्ष इति ख पाठः ।
For Private And Personal Use Only