SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०/२५] इदानीं नागाकर्षणमन्त्र विधानमभिधीयते— गारुडतन्त्राधिकारः १० । नियुतजपात् संसिध्यति दशांशहोमेन फणिसमाकृष्टिः । प्रणवादिः स्वाहान्तः चिरिचिरिशब्दादिको मन्त्रः ॥२२॥ ‘नियुतजपात्' लक्षजपात्। 'संसिध्यति' सम्यक् सिद्धिं प्राप्नोति । केन ? 'दशांशहोमेन' दशसहस्रहवनेन । २ 'फणिसमाकृष्टिः' नागाकर्षणम् । 'प्रणवादिः स्वाहान्तः' कारादिः स्वाहाशब्दान्तः । 'चिरिचिरिशब्दादिको मन्त्रः ' २ चिरिचिरि इति शब्दाद्यो मन्त्रः ॥ २ मन्त्रोद्धारः - 3 चिरि चिरि इन्द्रवारुणि ! एहि एहि कड कड स्वाहा || इति नागाकृष्टिमन्त्रः ॥ इदानीं नागप्रेषणमन्त्रविधानमभिधीयते नागप्रेषणमन्त्रोऽशीतिसहस्रैर्दशांशहोमेन । सिध्यति जाप्येन पुनः शोणितकरवीरपुष्पाणाम् ॥ २३॥ Acharya Shri Kailassagarsuri Gyanmandir वल्मीकनिकटे होमं कुर्यात् त्रिमधुरान्वितम् । मन्त्रसिद्धौ तमाज्ञाप्य प्रेषयेदुरगेश्वरम् ॥ २४ ॥ ‘नागप्रेषणमन्त्रः’ नागानां क्षुद्रकर्मकरण प्रस्थापनमन्त्रः । 'अशीतिसहस्रैः' अशीतिसहस्रप्रमाणैः । जाप्येन । कथम्भूतेन ? 'दशांशहोमेन' अष्टसहस्रहवनेन । 'सिध्यति' सिद्धिं प्राप्नोति । 'पुनः' पश्चात् । केषां ? ' शोणितकरवीर पुष्पाणाम्' रक्तकरवीरपुष्पाणाम् ॥ नागसम्प्रेषणमन्त्रोद्धारः - ॐ नमो नागपिशाचि ! रक्ताक्षिभ्रुकुटिमुखि ! उच्छिष्टदीप्ततेजसे ! एहि एहि भगवति ! हुं फट् स्वाहा || नागप्रेषणमन्त्रः ॥ ६७ ‘वल्मीकनिकटे’ वामलूरसमीपे । 'होम' हषनम् । 'कुर्यात् करोतु । 'त्रिमधुरान्वितं' क्षीराज्यशर्करा मिश्रित प्राग्भारीकृतप्रसूनान्वितम् । 'मन्त्र सिद्धौ' एतद्विधानेन कृतमन्त्र सिद्धौ प्राप्तायां । ' तमाज्ञाप्य' तं नागेश्वरमाज्ञां कृत्वा । 'प्रेषयेदुरगेश्वर' नागेश्वरं क्षुद्रकर्मकरणे प्रस्थापयेत् ॥ नागप्रेषण- कर्मकरण-जप- होम विधानमभिहितम् ।। प्रेषितोऽहमनेनेति मा कस्यापि पुरो वदेः । अन्यमन्त्रेण मा गच्छ मानवं भक्षयामुकम् ॥ २५॥ १ प्रणवादिस्वाहान्तचिरिधिरिशब्दादिको मन्त्रः इति ग पुस्तके पाठः । २ चिरि घिरि इति ग पाठः । 'प्रेषितः ' प्रस्थापितः । कः ? 'अहं' नागः । केन ? 'अनेन' मन्त्रवादिना । 'इति' एवम्। 'कस्यापि पुरो मा वदेः' कस्यापि पुरुषस्याग्रतः मा भाषस्व । 'अन्यमन्त्रेण मा गच्छ' एतन्मन्त्रं विहाय अन्यमन्त्रेण त्वं मा गच्छ । 'मानवं भक्षयामुकं' अमुकं दुष्टपुरुषं भक्षय ॥ इति नागप्रेषणविधानम् ॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy