________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६
सविवरणे भैरवपद्मावतीकल्पे [श्लोकाः १०।१७इदानीं चतुर्विधं चिह्नमभिधीयते
पार्थिवविषेण गुरुता जडता देहस्य सन्निपातत्वम् ।
लालाकण्ठनिरोधो गलनं दंशस्य तोयविषात् ॥१७॥ 'पार्थिवविषेण' पृथ्वीविषनागदष्टस्य । 'गुरुता' गुरुत्वम् । 'जडता देहस्य' शरीरस्य जाडयम् । 'सन्निपातत्वं' सन्निपातस्वरूपमिति पार्थिवविषचिहं स्यात् । 'लालाकण्ठनिरोधः' मुखे लालास्रवः। 'गलनं दंशस्य'सर्पदष्टदंशे रक्तक्षरणम् । कस्मात् ? 'तोयविषात्' अम्बुविषात् अम्बुविषदष्टस्यैवंविधं चिहं स्यात् ।।
गण्डोद्गमता दृष्टेरपाटवं भवति वह्निविषदोषात् ।
विच्छायतास्यशोषणमपि मारुतगरलदोषेण ॥१८॥ 'गण्डोद्गमता' दष्टशरीरे गण्डोद्गमत्वम्। 'दृष्टेरपाटवं' नेत्रयोरपटुत्वम् । 'भवति' स्यात् । कस्मात् ? 'वन्हिविषदोषात्' वन्हिविषनागदष्टस्य पुरुषस्यैवंविधं चिह्न स्यात् । 'विच्छायता' शरीरे दुश्छवित्वं, 'आस्यशोषणमपि' वदने निवत्वमपि। केन ? 'मारुतगरलदोषेण' वायुविषदोषेण । वायुविषनागदष्टपुरुषस्यैव चिहं स्यात् ।।
॥ इत्यष्टविधनागानां कुलवर्णविषचिहव्यक्तयः प्रतिपादिताः ।। न नमो भगवत्यादिमन्त्रमष्टोत्तरं शतम् ।
पठित्वा क्रोशपटहं ताडयद्दष्टसन्निधौ ॥१९॥ 'ॐ नमो भगवत्यादिमन्त्रं' ॐ नमो भगवति. इत्यादि वक्ष्यमाणमन्त्रं । 'अष्टोत्तर शतं' अष्टाधिकं शतम् । 'पठित्वा' पठनं कृत्वा । 'क्रोशपटह' क्रोशडमरुम् । 'ताडयेत्' ताडनं कुर्यात् । 'दष्टसन्निधौ' दष्टस्य पार्श्वे ॥
मन्त्रोद्धारः-ॐ नमो भगवति ! वृद्धगरुडाय सर्वविषविनाशिनि ! छिन्द छिन्द मिन्द मिन्द । गृह गृह्ण एहि एहि भगवति ! विद्ये हर हर हुं फट् स्वाहा ॥ दष्टश्रुतौ क्रोशपटहताडनमन्त्रः ॥
धृत्वार्धचन्द्रमुद्रां दक्षिणभागेऽहिदंशिनः स्थित्वा।
वदतु तव गौरिदानीं तस्करलोकेन नीतेति ॥२०॥ 'धृत्वार्धचन्द्रमुद्राम्' अर्धचन्द्राकारां--वामकराङ्गुष्टतर्जनीभ्यां धृत्वा मुद्राम् । क्व ? 'दक्षिणभागे' दक्षिणदिग्भागे। कस्य ? 'अहिदंशिनः' सर्पदष्टपुरुषस्य। 'स्थित्वा' उषित्वा। 'वदतु' भाषताम् । किं वदतु ? 'तव गौः' त्वदीया गौः। 'इदानी' साम्प्रतं । 'तस्करलोकेन' दस्युजनेन । 'नीतेति' गृहीत्वा नीतेति वदति ।।
तं समाहन्य पादेन याहीत्युक्ते स धावति ।
उत्थापयति तं शीघ्रं मन्त्रसामर्थ्यमीदृशम् ॥२१॥ 'तं समाहन्य पादेन' तं दष्टपुरुषं मन्त्रिणा स्वपादेन आहन्य। 'याहीत्युक्ते' गच्छेत्युक्ते । स धावति' स दष्टपुरुषो धावनं करोति। 'उत्थापयति तं शीघ्र' तं दष्टपुरुषं झटित्युत्थापयति। 'मन्त्रसामर्थ्यमीदृशं' भगवत्या मन्त्रमाहात्म्यमीदृश एवंविधम् ।।
॥क्रोशपटहताडनेन दष्टोत्थापनविधानम् ॥
For Private And Personal Use Only