________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०।१६]
गारुडतन्त्राधिकार:१०। भेरुण्डविद्यामन्त्रोद्धारः- एकहि एकमाते भेझण्डा विजाभविकजकरडे तंतु मंतु आमोसइ हुंकारविष नासइ थावर जंगम कित्तिम अंगज 8 फट ।। इयं कर्णजाप्या भेरुण्डविद्या । प्राकृतमन्त्रः ।। अतः सुवर्णरेखामन्त्रोद्धारः- सुवर्णरेखे! कूटविग्रहरूपिणि ! स्वाहा ।।
____ इयं तोयाभिषेककरणसुवर्णरेखा विद्या।। भूजलमरुन्नमोऽक्षरमन्त्रेण घटाम्बु मन्त्रितं कृत्वा।
पादादिविहितधारानिपातनाद्भवति विषनाशः ॥१३॥ 'भू' क्षि। 'जलं' प। 'मरुत्' स्वा। 'नभोऽक्षरे' हा। 'मन्त्रेण' क्षि प स्वा हेत्यक्षरचतुष्टयमन्त्रेण । 'घटाम्बु मन्त्रितं कृत्वा' कलशोदकमनेन मन्त्रेणाभिमन्त्रितं कृत्वा । 'पादादिविहितधारानिपातनात्' आपादमस्तकादिकृतजलधारानिपातनात् । 'भवति' स्यात् । 'विषनाशः' दष्टस्य विषनाशः।
मन्त्रोद्धारः-क्षिप स्वाहा ॥ इति निर्विषीकरणमन्त्रः ।। इदानीमष्टविधनागाभिधानमभिधीयते
अनन्तो वासुकिस्तक्षः कर्कोटः पद्मसंज्ञकः ।
महासरोजनामा च शङपालस्तथा कुलिः ॥१४॥ 'अनन्तो वासुकिस्तक्षः' अनन्तनामा नागः, वासुकिर्नाम नागः, तक्षको नाम नागः। 'ककोंट:' कर्कोटको नाम नागः । 'पद्मसंज्ञकः' पद्मनामा नागः। 'महासरोजनामा च' महापद्मनामनागः । 'शङ्खपाल:' शङ्खपालो नाम नागः । 'तथा कुलिः' तेन प्रकारेण कुलिको नाम नागः । इत्यष्टविधनागानां नामानि निरूपितानि ।। अतः परं तेषां नागानां कुल-जाति वर्ण-विष-व्यक्तयः पृथक्पृथगभिधीयन्ते
क्षत्रियकुलसम्भूतौ वासुकिशङ्कौ धराविषौ रक्तौ।
कर्कोटकपद्मावपि शूद्रौ कृष्णौ च वारुणीयगरौ ॥१५॥ 'क्षत्रियकुलसम्भूतो' क्षत्रियकुलसम्भवौ। कौ ? 'वासुकिशङ्खौं' वासुकिशङ्खपालनागौ। 'धराविषौ' तौ द्वो पृथ्वीविषान्वितौ । 'रक्तौ' रक्तवर्णों । 'ककोंटकपद्मावपि' अपि-पश्चात् ककोंटकपद्मौ । 'शूद्रौ शूद्रकुलोद्भूतो। 'कृष्णो' तौ द्वौ कृष्णवर्णों । चः समुच्चये। 'वारुणीयगरौ' तौ द्वौ अब्धिविषान्वितौ ।।
विप्रावनन्तकुलिको वह्निगरौ चन्द्रकान्तसङ्गाशौ।
तक्षकमहासरोजौ वैश्यौ पीतौ मरुद्भरलौ ॥१६॥ 'अनन्तकुलिको' अनन्तकुलिकनामनागौ। 'विप्रो' विप्रकुलसम्भूतौ । 'वह्निगरौं' अग्निविषान्वितौ । 'चन्द्रकान्तसङ्काशौ' स्फटिकवर्णसदृशौ । 'तक्षकमहासरोजो' तक्षकमहापद्मनामनागौ । 'वैश्यौ' वैश्यकुलोद्भवौं । 'पीतो' पीतवर्णों । 'मरुद्गरलौं' वायुविषान्वितौ। इत्यष्टविधनागानां कुलवर्णविषब्यक्तयः प्रतिपादिताः। जयविजयनागौ देवकुलोद्भुतौ आशीविषौ पृथिव्यां न प्रवर्तेते इत्येतस्मिन्मन्थे न प्रतिपादितौ ॥
१ ही देवदत्तस्य विषं हर विषं हर हुं फट् इति ख पाठः ।।
For Private And Personal Use Only