________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविवरणे भैरवपद्मावतीकल्पे [प्रलोकाः १०९मन्त्रोद्धारः-क्षिप - स्वाक्षि स्तम्भय स्तम्भय | विषस्तम्भनमन्त्रः।। इदानीं निविषीकरणमभिधीयते
जलभूमिवह्निमारुतगगनैः संप्लावयद्वयोपेतैः ।
भवति च विषापहारस्तर्जन्याश्चालनादचिरात् ॥९॥ 'जलं' पकारः। 'भूमिः' क्षिकारः। 'वन्हिः नकारः। 'पवनः' स्वाकारः। 'गगनं' हाकारः । इति पञ्चबीजाक्षरैः। कथम्भूतैः ? 'संप्लावयद्वयोपेतैः' सप्लावय संप्लावयेति पदद्वयान्वितैः । 'भवति' स्यादेव । कः ? 'विषापहारः' विषनिर्विषीकरणम् । कस्मात् ? 'तर्जन्याश्चालनात्' स्ववामकरतर्जन्याश्चालनात् । कथम् ? 'अचिरात्' शीघ्रतः। अतः मन्त्रोद्धारः--पक्षिी से स्वाहा संप्लावय संप्लावय ।। इति विषापहारः ।। इदानीमन्यत्रविषसंक्रमणकौतुकमभिधीयते--
मरुदग्निवारिधामव्योमपदं संक्रमव्रजद्वितयम् ।
चालनयाऽनामिकया नितरां विषसंक्रमो भवति ॥१०॥ 'मरुत्' स्वाकारः। 'अग्निः' कारः। 'वारि पकारः। 'धाम' क्षिकारः। 'व्योम' हाकारः। 'संक्रमव्रजद्वितयं' सक्रम संक्रम व्रज व्रजेति पदद्वयम् । 'चालनयानामिकया' स्ववामकरानामिकायाश्चालनेन। 'नितरां' अतिशयेन । 'विषसंक्रमो भवति' पर प्रति विषसंक्रमो भवति ।।
स्वा पक्षि हा संक्रम संक्रम व्रज व्रजेति विषसंक्रामणमन्त्रः ।। नागावेशः
व्योमजलवह्निपवनक्षितियुतमन्त्राद्भवत्यथावेशः ।
संक्षिप हः पक्षि प हः पठनेन कनिष्ठिचालनतः ॥११॥ 'व्योम' हाकारः। 'जल' पकारः। 'वन्हिः नकारः। 'पवन:' स्वाकारः। 'क्षितिः' क्षिकारः। 'युतमन्त्रात्' युक्तमन्त्रात् । 'भवति' एतत्कथितमन्त्राज्जायते। 'अथ' पश्चात् । 'आवेश:' पुरुषशरीरे नागावेशः । 'संक्षिप हः पक्षि प हः इति । 'पठनेन' एतन्मन्त्रपठनेन । कस्मात् ? 'कनिष्ठिचालनतः' वामकरकनिष्ठिकाचालनात् ।। मन्त्रोद्धारः--हा प , स्वाक्षि संक्षि प हः पक्षि प हः । इति पदे नागावेशमन्त्रः ।।
कर्णजाप्येन भेरुण्डा निर्विषं कुरुते नरम् ।
विद्या सुवर्णरेखापि दष्टं तोयाभिषेकतः ॥१२॥ 'कर्णजाप्येन' दष्टपुरुषस्य कर्णजाप्येन । 'भेरुण्डा' भेरुण्डदेव्या विद्या । 'निर्विषं कुरुते' निर्विषीकरणं कुरुते । 'नर' दष्टं पुरुषम् । 'विद्या सुवर्णरेखापि' अपि-पश्चात् सुवर्णरेखा विद्या। 'दष्टं' पुरुषं । 'तोयाभिषेकतः' सुवर्णरेखानामविद्ययाऽभिमन्त्रितोदकाभिषेकेण निर्विषं करोति ।।
१ क्षिप स्वाहा स्तंभय स्तंभय निर्विषकरणं पक्षि स्वाहा संप्लावय संप्लावय । अयं विषापहारमन्त्रः इति ख पाठः ॥
For Private And Personal Use Only