________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૭૨
सविवरणे भैरवपद्मावतीकल्पे श्लोकाः १०४४पञ्चपरमेष्ठिमन्त्रं प्रत्येकं प्रणवपूर्वहोमान्तम् ।
अष्टदलकमलमध्ये हिमकुङ्कममलयजैविलिखेत् ॥४४॥ 'पञ्चपरमेष्ठिमन्त्र' अर्हत्सिद्धाचायोपाध्यायसर्वसाधूनां मन्त्रम् । अमुं च कथम्भूतम् ? 'प्रत्येकं' पृथक्पृथक् । 'प्रणवपूर्वहोमान्तं' कारादिस्वाहाशब्दान्तम्। 'अष्टदलकमलमध्ये' अष्टदलाम्बुजमध्ये-अष्टदलकर्णिकामध्ये। 'हिमकुङ्कुममलयजैः' क'रकाश्मीरश्रीगन्धैः । 'विलिखेत्' विशेषेण लिखेत् ।।
__ मन्त्रोद्धार:- अर्हन्यः स्वाहा, 3 सिद्धेभ्यः स्वाहा, 3 सूरिभ्यः स्वाहा, 3 पाठकेभ्य: स्वाहा, 3 सर्वसाधुभ्यः स्वाहा । इति पञ्चपरमेष्टिना मन्त्रं कर्णिकामध्ये लिखेत् ।।
पूर्वाग्न्यादिषु दद्याज्जयादिजम्भादिदेवता ह्येताः
तद्दक्षिणदिग्भागे हेममयीं पादुकां देव्याः ॥४५॥ 'पूर्वाग्न्यादिषु' पूर्वादिचतुर्दिशासु आग्नेय्यादिचतुर्विदिशासु च । 'हि' स्फुटम् । 'एताः' कथितदेवताः। 'तद्दक्षिणदिग्भागे' तन्मण्डलदक्षिणदिक्प्रदेशे। 'हेममयीं स्वर्णविनिर्मिताम् । 'पादुकां देव्याः' पादुकाद्वयं दद्यादेव्याः ।।
स्थापनक्रमः---जये स्वाहेति प्राच्यां दिशि १, 3 विजये स्वाहेति दक्षिणायां दिशि २, ॐ अजिते स्वाहेति प्रतीच्यां दिशि ३, 3 अपराजिते स्वाहेति उत्तरस्यां दिशि ४, जम्भे स्वाहेत्याग्नेम्यां दिशि ५, 3 मोहे स्वाहेति नैऋत्यां दिशि६, स्तम्भे स्वाहेति वायव्यायां दिशि ७, स्तम्भिनि स्वाहेतीशान्यां दिशि ८, इत्यष्टदलेषु जयादिजम्भादिदेवता विलिखेत् ॥
अभ्यर्च्य गन्धतन्दुलकुसुमनिवेद्यप्रदीपधूपफलैः ।
परमेष्ठिनं च मन्त्रं भैरवपद्मावतीपादौ ॥४६॥ 'अभ्यर्य' अभिपूज्य । कैः ? 'गन्धतन्दुलकुसुमनिवेद्यप्रदीपधूपफलैः' श्रीगन्धाक्षतपुष्पचरुनैवेद्यदीपधूपफलाद्यष्टविधार्चनाद्रव्यैः । ‘परमेष्ठिनं च मन्त्रम्' पञ्चपरमेष्टिमन्त्रम् । 'अभ्यर्च्य' पूजयित्वा। 'पूजयेत् भैरवपद्मावतीपादो' भैरवपद्मावतीदेव्याः पादौ-स्वर्णपादुके अपि पूजयेत् ॥
परसमयजनविरक्तं शिष्यं जिनसमयदेवगुरुभक्तम् ।
कृतवस्त्रालारं संस्नातं मण्डलाभिमुखम् ॥४७॥ 'परसमयजनविरक्तम्' मिथ्याशासनलोकविरक्तम् । 'शिष्य' विनेयम् । पुनः कथम्भूतम् ? 'जिनसमयदेवगुरुभक्तम्' जिनशासनदेवतासद्गुरुभक्तम् । 'कृतवस्त्रालङ्कार' कृतो वस्त्रालङ्कारो येनासौ कृतवस्त्रालङ्कारः तम् कृतवस्त्रालङ्कारम् । पुनः कथम्भूतम् ? 'संस्नातम्' सम्यक्स्नातम् । 'मण्डलाभिमुखम्' उद्धारितमण्डलस्याभिमुखम् ॥
संस्नाप्य चतुःकलशैः सहिरण्यैस्तं ततोऽन्यवस्त्रादीन् । दत्त्वा तस्मै मन्त्रं निवेदयेत् गुरुकुलायातम् ॥४८॥
१ क्रमायातम् ख पाठः
For Private And Personal Use Only