________________
Shri Mahavir Jain Aradhana Kendra
९१४२]
www.kobatirth.org
वशिकरणतन्त्राधिकारः ९ । निर्गुण्डिका च सिद्धार्थ गृहद्वारेऽथवापणे । बद्धं पुष्यार्कयोगेन जायते क्रयविक्रयम् ॥४१॥
Acharya Shri Kailassagarsuri Gyanmandir
T
'निर्गुण्डिका' सितभूतकेशी । 'सिद्धार्थाः ' श्वेत सर्षपाः । 'गृहद्वारे' स्ववेश्मद्वारे । 'अथवा आपणे' विपणौ । 'बद्धं पुष्यार्क योगेन' पुष्यनक्षत्रे रविवारेण योगे बद्धं चेत् । 'जायते क्रयविक्रयं' वस्तुकयविक्रयं भवत्येव ॥ पतिप्रसूनसमये जपासूनं विमर्द्य ककया ।
न विभर्ति सा प्रसूनं धृतेऽपि तस्याः न गर्भः स्यात् ॥ ४२ ॥
इत्युभयभाषाकविशेखरश्रीमल्लिषेणसूरि विरचिते भैरवपद्मावतीकल्पे वश्यतन्त्राधिकारो नाम
नवमः परिच्छेदः ॥ ९ ॥
६१
'पिबति' पानं करोति । 'प्रसूनसमये' दिनत्रयपुष्पकाले । किम् ? ' जपाप्रसूनं' जपाकुसुमम् । किं कृत्वा ? 'विमर्थ' विशेषेण मर्दयित्वा । कया ? 'कजिकया' सौवीरेण । 'सा' नारी। 'प्रसून' पुष्पं । 'न बिभर्ति' न धारयति । 'धृतेऽपि' यदि कथमपि पुष्पं धरति तथापि 'तस्या न गर्भः स्यात् तस्या वनिताया गर्भसम्भवो न भवत्येव ॥
For Private And Personal Use Only