________________
Shri Mahavir Jain Aradhana Kendra
६०
www.kobatirth.org
सविवरणे भैरवपद्मावतीकल्पे
निशायां काञ्जिकाधूपं दत्त्वा योनौ प्रवेशयेत् । बालां मध्यां गतप्रायां योषां विज्ञाय तत्क्रमात् ३६ ॥
नीरसतां बिभ्राणां योषां रतिसंगरे मदोन्मत्तां । द्रावयति तादृशीमप्येष जलुकाप्रयोगस्तु ॥३७॥
'निशायां' रात्रौ । 'काञ्जिकाधूपं दत्त्वा' आरनलिनधूपं दत्त्वा । 'योनौ प्रवेशयेत्' तपितरस स्त्रीयोनी प्रवेशयेत् । 'बालां मध्यां गतप्रायां योषां विज्ञाय तत्क्रमात् ' बालस्त्रीणां द्वादशगद्याणप्रमाणरसकृतजलका मध्यप्रमाणस्त्रीणां षोडशगद्याणप्रमाणरसकृतजलूका गतप्रायस्त्रीणां चतुर्विंशतिगद्याणप्रमाणरसकृतजलूका इति क्रमं ज्ञात्वा प्रवेशयेत् ।
सोमाशाश्रितमूलं कपिकच्छोर्गोजलेन परिपिष्टम् । निजतिलकप्रतिबिम्बं संपश्यति शाकिनीशीर्षे ॥ ३८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
'नीरसतां बिभ्राणां' निर्द्रवभावं धारयन्तीं । 'योषां' स्त्रियम् । 'रतिसङ्गरे' सुरतरणरङ्गे । 'मदोन्मत्तां' यौवनमदोन्मत्ताम् । 'द्रावयति तादृशीमपि' एवंविधां मदोन्मत्तामपि क्षरयति । 'एष जलुकाप्रयोगस्तु' तु पुनः एषः - कथितप्रकारेण कृतज लूकाप्रयोगः ॥ इति जलूका प्रयोगविधानम् ॥
[श्लोकाः ९२३६
आदित्याक्षतदिव्यस्तम्भविधौ मरिचपिप्पलीकामाम् । दिव्यस्तम्भे सुण्ठीचूर्णं च भक्षयेद् धीमान् ॥३९॥
'सोमाशाश्रितमूलं' उत्तरा दिग्गतमूलम् । कस्याः ? 'कपिकच्छो:' पिशाच्याः । कथम्भूतं मूलम् ? 'गोजन परिपिष्टं' गोमूत्रेण वर्तितम् । 'निजतिलकप्रतिबिम्ब' स्वकीयविशेषकं प्रतिरूपम् । 'सम्पश्यति शाकिनीशीर्षे' स्वकीयतिलकं शाकिनीललाटे तदेव पश्यति ||
-
'आदित्याक्षतदिव्यस्तम्भविध' आदित्यतन्दुलदिव्यस्तम्भने । 'मरिचपिप्पलीकामाम्' उषण महाराष्ट्रीचूर्ण भक्षयेत् । कर्पूरदिव्यस्तम्भने तु कपालिकादि कर्परादि । 'दिव्यस्तम्भे' दिव्यस्तम्भविधाने । 'सुण्ठीचूर्ण च भक्षयेत्' महौषधीचूर्ण भक्षयेत् । कः ' धीमान्' बुद्धिमान् ॥
For Private And Personal Use Only
लज्जरिकोभेकवसां करलिप्तं स्तम्भनं करोत्यग्नेः ।
श्वासनिरोधेन तुलादिव्यस्तम्भो भवत्येव ॥ ४० ॥
'लज्जरिका' लज्जरिकासमंगा । 'भेकवसा' हरिवसा । 'करलिप्तं तच्चूर्णानि तद्वसया हस्तलिप्तम् ।
' स्तम्भनं करोत्यग्नेः' अभिस्तम्भो भवत्येव । ' श्वासनिरोधेन तुलादिव्यस्तम्भो भवत्येव' श्वासनिरोधेन घटे तुलादिव्यस्तम्भोऽवश्यं भवत्येव ॥
१ भेकवसा इति ख पाठः ।