________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९/३५ ]
वशिकरणतन्त्राधिकारः ९ ।
५९
'अग्न्यावर्तितनागे' अग्निना वर्तिते नागे । 'हरवीर्ये' पारदरसम् । 'निक्षिपेत् ततो द्विगुणं ततः नागेकभागाद्रसं द्विभागं निक्षिपेत् । 'मुनिः' रक्तागस्तिः । 'कनक' कृष्णवत्तरं । 'नागसर्पः' नागदमनकं । 'ज्योतिष्मत्यत सिभिश्व' कंगुण्यतसीभ्यां च । 'तन्मर्थम्' तत्पूर्वोक्तनागमेतेषां रसैर्मर्दनीयम् ||
डीकेन मर्दयित्वा गणियार्या मदनवलयकं कृत्वा । रतिसमये वनितानां रतिदर्पविनाशनं कुर्यात् ॥३१॥
Acharya Shri Kailassagarsuri Gyanmandir
'डीकेन' निर्यासेन । 'मर्दयित्वा' पुनरपि मर्दनं कृत्वा । कस्याः डीकेन ? 'गणियार्याः ' कर्णिकारवृक्षस्य । 'मदनवलयकं कृत्वा' स्मरवलयं लिङ्गे कृत्वा । 'रतिसमये' सुरतकाले । 'वनितानां' स्त्रीणाम् । 'रतिदर्पविनाशनं' सुरतगर्वविनाशनम् । 'कुर्यात् करोति ॥
व्याघ्री बृहतीफलरससूरणकण्डूतिचणकपत्राम्बु । कपिकच्छुवज्रवल्लीपिप्पलिकामालिकाचूर्णम् ॥३२॥
'व्याघ्री बृहतीफलरसं' बृहतीद्वयफलरसं । 'सूरणं' श्वेतसूरणं । 'कण्डूतिः' अग्निकः । 'चणकपत्राम्बु' आर्द्रचणकपत्राम्बु । 'कपिकच्छुः' पिशाचिका । 'वज्रवल्ली' काण्डवल्ली । 'पिप्पलिकामा ' महाराष्ट्री । 'अम्लिका' चाङ्गेरी । 'चूर्ण' केषांचिद्रसः ॥
अग्न्यावर्तितनागं नववारं भावयेदिमैर्द्रव्यैः ।
स्मरवलयं कृत्वैवं वनितानां द्रावणं कुरुते ॥ ३३ ॥
‘अग्न्यावर्तितनागं' | ‘नववारं ' नवसंख्यावारैः | 'भावयेद्' भावनां कुर्यात् । कः ? 'इमैर्द्रव्यैः' एतत्कथित - द्रव्यैः । ' स्मरवलयं कृत्वैवं' अनेन प्रकारेण मदनवलयं कृत्वा । 'वनितानां' स्त्रीणाम् । 'द्रावणं' भगनिर्झरणं । 'कुरुते' करोति ॥
भानुस्वरजिनसंख्याप्रमाणसूतकगृहीतदीनारान् । अङ्कोल्लराजवृक्षकुमारीरसशोधनं कुर्यात् ॥३४॥
'भानुस्वर जिनसङ्ख्या' द्वादशसङ्ख्या, षोडशसङ्ख्या, चतुर्विंशतिसङ्खया । 'प्रमाणसूतकगृहीत दीनारान्' एवं त्रिसङ्ख्याकथित प्रमाणपारदरसगृहीतगद्याणकान् । 'अङ्कोलराजवृक्षकुमारी र सशोधनं कुर्यात् ' 'अङ्कोलरसः' सम्पाकरसः। ‘राजत्रृक्षरसः’। ‘कुमारीरसः' गृहकन्यारसः । एतैः रसैः पारदसंशोधनं कुर्यात् ॥
शशिरेखाखरकर्णीको किलनयनापमार्गकनकानाम् ।
चूर्णैः सहैकविंशतिदिनानि परिमर्दयेत् स्रुतम् ॥ ३५॥
'शशिरेखा' वाकुचीबीजं । 'खरकणी' गर्दभकर्णी, कर्णाटभाषया कर्त्यगिरि । 'कोकिलानयनं' कोकिलाक्षिबीजं च। ‘अपामार्गः’ प्रत्येक्पुष्पीबीजम् । 'कनक' कृष्णधत्तूरकम् । 'चूर्णैः सहैकविंशतिदिनानि' एभिः चूर्णैः सह प्रत्येकं एकविंशतिदिनानि । 'परिमर्दयेत् सूतं' शोधितपारदरसं मर्दयेत् ॥
१ सम्यक् इति ख पाठः ।
For Private And Personal Use Only