________________
Shri Mahavir Jain Aradhana Kendra
५८
www.kobatirth.org
सविवरणे भैरवपद्मावतीकल्पे सितशरपुंखामूलं धृत्वा सितकोकिलाक्षबीजं च । वनवसलारसपिष्टं वीर्यस्तम्भं मुखे संस्थम् ॥ २५ ॥
कृष्णवृषदंशदक्षिणजङ्कायाः शल्यखण्डमादाय । बद्धं कटिप्रदेशे वीर्यस्तम्भं नृणां कुरुते ॥ २६ ॥
'सितशरपुङ्खामूलं' श्वेतबाणपुङ्खामूलम् । धृत्वा' गृहीत्वा । 'सितको किलाक्षबीजं च' श्वेतकोकिलाक्षबीजानि च । 'वन सलारसपिष्टम् ' अरण्योद्भव ( उ ) पोदकीरसेन पेषितं बनवला इति, कर्णाटभाषायां कासलि । 'वीर्यस्तम्भं' शुक्रस्तम्भम् । ‘मुखे संस्थं' पुरुषमुखे संस्थम् ॥
कपिलाघृतेन बोधितदीपः सुरगो पचूर्णसम्मिलितः । स्तम्भयति पुरुषवीर्यं रत्यारम्भे निशासमये ॥२७॥
'कृष्णवृषदंशदक्षिणजंघायाः' कृष्णबिडालदक्षिणजङ्कायाः । 'शल्यखण्डं' तदस्थिखण्डम् | 'आदाय' गृहीत्वा । 'बद्धं कटिप्रदेशे' पुंसः कटिप्रदेशे बद्धम् । 'नृणां' मनुष्याणाम् । वीर्यस्तम्भं 'कुरुते' करोति ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ श्लोकाः ९।२५
टङ्कणपिप्पलिकामासृरणकर्पूरमातुलिङ्गरसैः । कृत्वात्माङ्गुलिलेपं कुरुते स्त्रीणां भगद्रावम् ॥२८॥
''
'कपिलाघृतेन' कपिलाज्येन । 'बोधितदीप : ' प्रज्वालितीपः । कथम्भूतः ? 'सुरगोपचूर्णसम्मिलित:' इन्द्रगोपचूर्णगर्भकृतवर्त्यान्वितः । स दीपः किं करोतीत्याह ' स्तम्भयति' स्तम्भं करोति । किम् ? 'पुरुपवीर्यम्' वीर्यम् | कस्मिन् ? 'रत्यारम्भे' सुरतप्रारम्भे । क्व ? 'निशा समये ' रात्रिसमये ॥
'टङ्कणं' मालतीतटसम्भवम् । 'पिप्पलिकामा ' महाराष्ट्री । 'सूरण' अरण्यश्वेतसूरणकन्दः । 'कर्पूरः' चन्द्रः । 'मातुलिङ्गं' बीजपूरम् । तेषां रसैः । ' कृत्वा' । कम् ? 'आत्माङ्गुलिलेपं' स्वाङ्गुलिलेपम् | 'स्त्रीणां' वनितानाम् । 'भगद्राव' भगनिर्झरणं कुरुते ॥
मूलं श्वेतापमार्गस्य कुबेरदिशि संस्थितम् ।
उत्तरात्रितयं ग्राह्यं शीर्षस्थं द्यूतवादजित् ॥ २९ ॥
'मूलं श्वेतापमार्गस्य' श्वेतखरमञ्जर्या मूलम् । कथम्भूतम् ? 'कुबेरदिशि संस्थितम् ' । ' उत्तरान्त्रितये' उत्तराफाल्गुनी - उत्तराषाढा - उत्तराभाद्रपदेतिऋक्षत्रये । 'ग्राह्यं' गृहीतव्यम् । 'शीर्षस्थ ' मस्तके स्थितम् । 'द्यूतवादजित्' द्यूते विवादे विजयं करोति ॥
अग्न्यावर्तितनागे हरवीर्यं निक्षिपेत् ततो द्विगुणम् । मुनिकनकनागसर्पज्योतिष्मत्यतसिभिश्च तन्मर्द्यम् ॥ ३०॥
For Private And Personal Use Only