________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९/२४]
वशीकरणतन्त्राधिकारः ९ ।
५७
'विषमुष्टिः' विषडोडिका | 'कनकमूलं' धत्तरमूलम् । 'रालाक्षतवारिणा' रालाक्षतधौतोदकेन । 'ततः पिष्टम् ' तस्मात् पिष्टम् । 'तद्रसभावितपत्रं' तत्पिष्टौषधरसेन भावितं ताम्बूलपत्रम् | 'पिशाचयति' पिशाच इवाचरति । 'उदरमध्यगतं ' जठरमध्यं गते सति पुरुषं पिशाचयति ॥
चिक्कणिकेप्सितरूपापिशाचिकासार्द्रचितमषीमथिते ।
कपाले मातृगृहे काननकार्पासकृतवर्त्या ॥ २१ ॥
'चिकणिका' इलोटा, कर्णाटभाषायां उहाठा । 'ईप्सितरूपा' बहुरूपा, सरटविट् । 'पिशाचिका' कपिकच्छुका | 'सार्द्रचितमधीमथिते' साईचितोद्भवमध्या निर्मथिते । कस्मिन् ? 'नृकपाले' नरकपाले । 'मातृगृहे' सप्तमातृकाणां गृहे । 'काननकार्पासकृतवर्त्या' अरण्योद्भवकार्पासतूलेन निर्मितवर्त्य ॥
धार्यं कृष्णाष्टम्यामञ्जनमेतन्महाघृतोद्भूतम् । तेन त्रिशूलमञ्जनमपि कुर्यादङ्कभीत्यर्थम् ॥ २२ ॥
'धार्यम्' धर्तव्यम् | 'कृष्णाष्टम्यां कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा । किम् ? 'अञ्जनं' कज्जलम् | 'एतत् ' एतत्कज्जलम् | 'महाघृतोद्भूतम्' महाघृतोद्भवम् । 'तेन त्रिशूलं कुर्यात्' अनेन प्रकारेण कृतकज्जलेन न केवलं त्रिशूलं कुर्यात् । ' अञ्जनमपि कुर्यात् नयनाञ्जनमपि करोतु । किमर्थम् ? 'अङ्कभीत्यर्थम्' एतदञ्जनं प्रतिपक्षकस्य भयोत्पादनार्थम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
तत्कज्जलोद्धारमन्त्रः -- नमो भगवते ! हिडिम्बवासिनि ! अल्लल्लमांसप्पिये ! नहयलमंडलपइहिए तुह रणमत्ते पहरणदुद्रे आयासमंडि! पायालमंडि सिद्धमंडि जोइणिमंडि सव्वमुहमंडि कज्जलं पडउ १ स्वाहा || प्राकृतमन्त्रः ॥ कज्जलपातनं ऐशान्यभिमुखेन कर्तव्यम् ॥
चितवह्निदग्धभूतद्रुमयमशाखामधीं समाहृत्य ।
अंकोल्लतैलसृतककृष्णबिडालीजरायुश्च ॥२३॥
'चितवह्निदग्धभूतद्रुमयमशाखामधी' चिताग्निज्वलितकलिद्रुम दक्षिण दिग्भवशाखाजनितमषीम् । 'समाहृत्य ' सम्यगाहृत्य। ‘अङ्कोल्लतैलं’ अङ्कोल्लबी जोद्भवतैलं । 'सूतकम्' पारदरसम् । 'कृष्णविडालीजरायुश्च' कृष्णमार्जारीजरायुमपि ॥
धूकनयनाम्बुमर्दितगुलिकां कृत्वा त्रिलोहसम्मठिताम् । धृत्वा तामात्ममुखे पुरुषोऽदृश्यत्वमायाति ॥ २४ ॥
'घूकनयनाम्बुमर्दितगुलिकां कृत्वा' उलूकनेत्राम्बुमर्दितभूतद्मोद्भवमध्यादिचतुर्द्रव्याणां गुटिकां कृत्वा । 'त्रिलोह्सम्मठित' ताम्रतारसुवर्णाख्यैः अर्कषोडशवह्निभिरिति भागकृत त्रिलोहेन सम्यग्मटितां कृत्वा । ' धृत्वा तामात्ममुखे' तां त्रिलोहमठितां गुलिकां स्वमुखे धारयित्वा । 'पुरुष:' पुमान् । 'अदृश्यत्वम्' अदृश्यभावम् । 'आयाति' आगच्छति ॥
१ हुँ फट् घेघे स्वाहा इति ख पाठः ।
For Private And Personal Use Only