________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविवरणे भैरवपद्मावतीकल्पे श्लोकाः ९।१७___'एतेषां प्रागुक्तद्रव्याणां। 'चूर्ण कृत्वा' चूर्ण विधाय। 'यावकमध्ये ततः परिक्षिप्य' तदनन्तरं तच्चूर्ण अलक्तकपटलमध्ये निक्षिप्य । 'पङ्कजभवतन्तुवृता' पद्मनालिकाजनितसूत्रेण वृता । 'वर्तिः कार्या' अनेन प्रकारेण वर्तिः कर्तव्या । 'पुनस्तेन' पश्चात् तेन वक्ष्यमाणेन ।।
कारुकिकुचभवपयसा त्रिवर्णयोषानुतस्तनक्षीरैः ।
परिभाव्य ततः कपिलाघृतेन परिबोधयेद्दीपम् ॥१७॥ 'कारुकिकुचभवपयसा' पञ्चकारुकीस्तनोद्भवदुग्धेन । 'त्रिवर्णयोषाघुतस्तनक्षीरैः' ततः कास्कीकुचभवपयसोऽनन्तरं ब्राह्मणक्षत्रियवैश्यस्त्रीणां स्तनदुग्धेन। 'परिभाव्य' प्राक्कृतवर्तिः तैर्दुग्धैर्भावयितव्या। 'ततः' भावनानन्तरं 'कपिलाघृतेन' कपिलाज्येन । 'परिबोधयेत्' प्रज्वालयेत् । कम् ? दीपम् ।।
उभयग्रहणे दीपोत्सवे च नवकर्परेऽञ्जनं धार्यम् ।
गोमयविलिप्तभूम्यां स्थित्वा मन्त्राभिषिक्तायाम् ॥१८॥ _ 'उभयग्रहणे' सोमसूर्यग्रहणे । 'दीपोत्सवे च' अथवा दीपावलीपर्वणि । 'नवकर्परेऽजनं धार्यम्' नवीनमृद्भाण्डकपाले 'अञ्जनं धार्यम्' कज्जलं ग्राह्यम् । ‘गोमयविलिप्तभूम्यां' भूम्यपतितगोमयेन सम्मार्जितपृथिव्याम् । 'स्थित्वा' उषित्वा। कथम्भूतायाम् ? 'मन्त्राभिषिक्तायां' वक्ष्यमाणमन्त्रेणाऽभिषिक्तभूम्याम् ।।
मन्त्रोद्धारः-- भूमिदेवते ! तिष्ठ तिष्ठ ठः ठः । भूमिसंमार्जनमन्त्रः ।।२ ॐ नमो भगवते चन्द्रप्रभाय चन्द्रेन्द्रमहिताय नयनमनोहराय हरिणि हरिणि सर्व वश्यं कुरु कुरु स्वाहा ।।
कज्जलोद्धारणमन्त्रः ।। ॐ नमो भूताय समाहिताय कामाय रामाय 3 चुलुचुलु गुलुगुलु नीलभ्रमरि नीलभ्रमरि मनोहरि नमः ॥
नयनाअनमन्त्रः॥ कजलरञ्जितनयने दृष्ट्वा तां वाञ्छतीह मदनोऽपि ।
नरमप्यञ्जितनयनं भूपाद्यास्तस्य यान्ति वशम् ॥१९॥ 'कज्जलरञ्जितनयने' कज्जलेनाञ्जिते नेत्रे । 'दृष्टा'विलोक्य । 'तां' कामिनीं 'वाञ्छतीह मदनोऽपि' कामदेवोऽपि वशं याति । 'नरमप्यन्नितनयनं' पुरुषमप्यजितनयनं दृष्टा। 'भूपाद्याः तस्य यान्ति वशं' तस्य कज्जलाजितपुरुषस्य क्षत्रियाद्यास्तदअनावश्या भवन्ति ।
विषमुष्टिकनकमूलं रालाक्षतवारिणा ततः पिष्टम् । तद्रसभावितपत्रं पिशाचयत्युदरमध्यगतम् ॥२०॥
१०वीपः इति ख पाठः ।। २ न ऐद्रदेवते ! कज्जलं गृह्ण गृह्ण स्वाहा' कर्पराभिमन्त्रणं । इति ख ग पाठः । ३ भूतेशाय इति ख पाठः। ४ वशयतीति मदनोपि इति ग पाठः ५ नरमप्यजितनेत्रं भूपाद्या यान्ति तस्य वशम् इति ग पाठः
For Private And Personal Use Only