________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९/१६]
वशीकरणतन्त्राधिकारः ९ ।
५५
'पञ्च पयस्त रुपयसा' न्यग्रोध - उदुम्बर- अश्वत्थ-लक्ष- वटी, वटस्थाने बंदुलमिति वदन्ति केचित्, इति पञ्चक्षीरवृक्षक्षीरैः । न केवलं पञ्चक्षीरवृक्षक्षीरैरेव 'पोतवयण्ड करसेन' कृष्णमन्थेलिकारसेन । 'परिभाव्या' पश्च सूत्रवर्तिः परिभाव्या, अर्कतूलाब्ज सूत्र साल्मलीतू लपट्टत्कपासा इति पश्च सूत्रकृता । 'तिलतैल दीपवर्तिः'। 'त्रिभुवनजनमोहकृद् भवति' भुवनत्रयस्थितजनानां मोहकारिणी भवति ॥
विषमुष्टिकनकहलिनी पिशाचिकाचूर्णमम्बु देहभवम् । उन्मत्तकभाण्डगतं क्रमुकफलं तद्वशं कुरुते ॥ १२॥
'विषमुष्टिः' विषदोडिका । 'कनकम्' कृष्णधत्तूर : 'हलिनी' कलिहलिनी 'पिशाचिका' कपिकच्छुका, 'चूर्ण' एतेषां चतुर्द्रव्याणां चूर्णम् | 'अम्बु देहभवम्' स्वमूत्रम् । 'उन्मत्तकभाण्डगतं' एतद्रव्याणां चूर्ण स्वमूत्रसहितं कृष्णधत्तूरकफलभाण्डमध्ये दिनत्रयस्थितं । 'ऋमुकफलं' पूगीफलम् । 'तद्वशं कुरुते' तत्क्रमुकफलं खादने दत्ते स्त्रीवशं करोति ॥
क्रमुकफलं मुखनिहितं तस्माद्दिवसत्रयेण संगृह्य |
कनकविषमुष्टिहलिनीचूर्णैः प्रत्येकं संक्षिप्त्वा (य) ॥ १३॥
Acharya Shri Kailassagarsuri Gyanmandir
'क्रमुकफलं' पूगीफलम् । 'मुख निहितं' सर्पास्ये स्थापितम् । 'तस्मात् ' सर्पमुखात् । 'दिवसत्रयेण संगृश्य' तत्क्रमुकफलं दिनन्त्रयानन्तरं गृहीत्वा । 'कनकविषमुष्टिहलिनीचूर्णैः' धत्तूरकमूलचूर्णम्, विषडोडिकाचूर्ण, हलिनीचूर्णम्, 'प्रत्येकं' पृथक्पृथक् 'संक्षिप्त्वा (य)' निक्षिप्य ॥
खरतुरगशुनीक्षीरैः क्रमशः परिभाव्य योजयेत् खाद्य ।
अबलाजनवशकरणं मदनक्रमुकं समुद्दिष्टम् ॥ १४ ॥
'खरतुरगशुनी क्षीरैः' रासभाश्वशुनीक्षीरैः । 'क्रमश:' परिपाटया । 'परिभाव्य' भाव्यं, कनकचूर्ण खरदुग्धेन भाव्यं विषमुष्टिचूर्ण तुरगदुग्धेन भाव्यं, हलिनीचूर्ण शुनीदुग्धेन भाव्यमिति क्रमेण तत्पूगीफलं दिनत्रयेण भावनीयम्, 'योजयेत् खाद्ये' एतत्प्रकार सिद्धं क्रमुकं सकलं ताम्बूले योजनीयम् । 'अबलाजनवशकरणं मदनक्रमुकं' स्त्रीजनानां वशीकरणं अनङ्गबाणनामधेयं क्रमुकम् । 'समुद्दिष्टं' सम्यक्कथितम् ॥
पुत्तंजारीकुङ्कुमशरपुङ्खीमोहनीशमी कुष्टमम् ।
गोरोचनाहिकेसरतगररुदन्ती च कर्पूरम् ॥ १५ ॥
'पुत्तं जारी' प्रसिद्धा, 'कुङ्कुमं' काश्मीरम्, 'शरपुङ्खी' श्वेतबाणपुङ्खी, 'मोहनी' वदपत्रिका, 'शमी' केशहन्त्री, 'कुष्टं' कोष्टम् | 'गोरोचना' पिङ्गला, 'अहिंकेसर' नागकेसरम्, 'तगरं' पिण्डीत गरम्, 'रुदन्ती' प्रतीता । 'कर्पूरं ' चन्द्रान्वितम् ॥
कृत्यैतेषां चूर्णं यावकमध्ये ततः परिक्षिप्य । पङ्कजभवतन्तुवृता वर्तिः कार्या पुनस्तेन ॥१६॥
For Private And Personal Use Only