________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सविवरणे भैरवपद्मावतीकल्पे वटिकाभिः समं क्षिप्त्वा लवणं शुभभाजने । पक्त्वा स्वमूत्रतो दद्यात् खाद्ये स्त्रीजनमोहनम् ॥ ६ ॥
मृतभुजगवदनमध्ये लज्जरिकां सन्निधाय सितगुञ्जाम् । रुद्रजटासम्मिश्रामाकृष्य दिनत्रयं यावत् ॥ ७ ॥
' वटिकाभिः समं क्षिप्त्वा' प्रकृतवटिकाभिः समं क्षिप्त्वा क्षेपयित्वा । किम् ? 'लवणम्' समुद्रलवणम् । क? 'शुभभाजने' मनोज्ञभाण्डे । 'पक्त्वा' पाकं कृत्वा । कथम् ? ' स्वमूत्रतः' निजमूत्रतः । 'दद्यात् खाये' अन्नादिषु दद्यात् । 'स्त्रीजनमोहनं' वनिताजनमोहनं स्यात् ॥
लाङ्गलिकायाः कन्दे गोमयलिप्ते परिक्षिपेच्चूर्णम् ।
परिभाव्य शुनीपयसा स्वमलैः पञ्चाङ्गसम्भूतैः ॥८॥
'मृतभुजगवदनमध्ये' पञ्चत्वप्राप्तकृष्णसर्पास्यमध्ये । 'लज्जरिकां' समङ्गामूलम् । 'सन्निधाय' सम्यग्निधाय । 'सितगुज' श्वेतरक्तिकाम् । किंविशिष्टाम् ? 'रुद्रजटासम्मिश्राम्' रुद्रजटासंयुक्ताम् । 'आकृष्य दिनत्रयं यावत्' एतन्मूलनयं तत्सर्पास्ये दिनत्रयं यावत् संस्थाप्य, पश्चात् 'आकृष्य' निष्कास्य ॥
Acharya Shri Kailassagarsuri Gyanmandir
नेत्रश्रोत्रमलं शुक्रं दन्तजिह्वामलं तथा । वश्यकर्मणि मन्त्रज्ञैः पञ्चाङ्गमलमुच्यते ॥ ९॥
[श्लोकाः ९/६---
'लाङ्गलिकायाः कन्दे' कलिहार्याः कन्दं उत्कीर्य तद् द्वयसम्पुटमध्ये । कथम्भूते ? 'गोमयलिप्त' गोशकृता परिलिप्य । 'परिक्षिपेच्चूर्णम् ' प्राक्कथितोषवत्रयकृतचूर्ण तत्कन्दमध्ये निक्षिपेत् । किं कृत्वा ? 'परिभाव्य' तच्चूर्ण सम्यग्भावयित्वा । केन ? 'शुनीपयसा' कृष्णशुनीदुग्धेन, न केवलं शुनीदुग्धेन भाव्यम् | 'स्वमलैः पञ्चाङ्गसम्भूतैः' स्वकीयपञ्चाङ्गजनितमलैरपि भावयित्वा ॥
पक्त्वा चूर्णमिदं पश्चाजगद्वश्यकरं परम् ।
दद्यात् खाद्यान्नपानेषु स्त्रीपुंसोश्च परस्परम् ॥ १० ॥
'नेत्रं' लोचनम्, 'श्रोत्रं' श्रवणम्, तयोर्मलम् । 'शुकं' बीजम् । 'दन्तः' रदनः, 'जिह्वा' रसना 'मलं' अनयोर्मलम् | ' तथा ' तेन प्रकारेण | 'वश्यकर्मणि' स्त्रीवश्यकर्मकरणे । 'मन्त्रज्ञैः' मन्त्रविद्भिः । 'पञ्चाङ्गमलमुच्यते' एवं पञ्चाङ्गमलमिति कथ्यते ॥
For Private And Personal Use Only
'पक्त्वा' पाकं कृत्वा । 'चूर्णमिदम्' एतत्कथितचूर्णम् | 'पश्चात् ' तदनन्तरम् । 'जगद्वश्यकर' सकलजनवश्यकरम् | 'पर' अतिशयेन । 'दद्यात्' ददातु। केषु ? 'खाद्यान्नपानेषु' खादनपानेषु । कयोः ? 'स्त्रीपुंसोच' स्त्रीपुरुषयोः । कथम् ? 'परस्परं' एकैकं तद्दद्यात् वशीभवति ॥
पञ्चपयस्त रुपयसा पोतक्यण्डकरसेन परिभाव्या । तिलतैलदीपवर्तिस्त्रिभुवनजनमोहकृद्भवति ॥११॥