________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नवमः रूयादिवश्यौषधपरिच्छेदः । ९
लवंगं कुङ्कुमोसीरं नागकेसररोजिकाः। एलामनःशिलाकुष्टं तगरोत्पलरोचनाः ॥ १ ॥
‘लवङ्गं’ देवकुसुमम्। ‘कुङ्कुमम्’ वाल्हीकम् । 'उसीरं' श्वेतवालकम् । 'नागकेसरं' चाम्पेयम् । 'राजिकाः' श्वेतसर्षपाः । 'एला' पृथ्वीका । 'मनःशिला' कुनटी । 'कुष्टम्' वाप्यम्। 'तगरे' पिण्डीत गरम् । 'उत्पलं' श्वेतकमलम् । 'रोचना' पिङ्गला ॥
श्रीखण्डतुलसीपिक्ची पद्मकं कुटजान्वितम्। सर्वं समानमादाय नक्षत्रे पुष्यनामनि ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
‘श्रीखण्डं' माखाश्रयम्। ‘तुलसी' ३ सरसा । 'पिक्की' गन्धद्रव्यम् । 'पद्मकं' प्रसिद्धम् । 'कुटजान्वितं’ इन्द्रयवान्वितम्। ‘सर्वे समानमादाय' एतत् सर्व समानभागं गृहीत्वा । 'नक्षत्रे पुष्यनामनि' पुष्यनाम्नि नक्षत्रे || कन्या पेषयेत् सर्वं हिमभूतेन वारिणा ।
कुरु चन्द्रोदये जाते तिलकं जनमोहनम् ॥३॥
'कन्यया' कुमार्या | 'पेषयेत्' सचूर्णयेत् । 'सर्व' तत् सर्वमौषधम् । केन ? 'हिमभूतेन वारिणा ' हिमाज्जनितोदकेन । 'कुरु' । कस्मिन् ? 'चन्द्रोदये जाते', अमृतोदये जाते । किं ? 'तिलकम्' विशेषकम् । कथम्भूतम् ? 'जनमोहनम् ' जनवश्यकरम् ॥
बर्हिशिखासितगुञ्जागोरम्भाभानुकीटकस्य मलम् । निजपञ्चमलोपेतं चूर्णं वनितां वशीकुरुते ॥४॥
अर्कपत्रकीट
'बहिंशिखा' मयूरशिखा, 'सितगुञ्जा' श्वेतगुआ 'गोरम्भा' प्रसिद्धा । 'भानुकीटकस्य मलं', कविद । 'निजपश्चमलोपेतं' स्वकीयपश्चमलोपेतम् । 'चूर्ण' एतद् द्रव्यान्वितं ताम्बूलचूर्णम् | 'वनितां' स्त्रियम् । 'वशीकुरुते' वशीकरोति ॥
करवीरभुजङ्गाक्षीजारीदण्डीन्द्रवारुणी - ।
गोबन्धिनीसलज्जानां विधाय वटिका बहूः ॥ ५ ॥
'करवीर' रक्ताश्वमारजटा, 'भुजङ्गाक्षी' सर्पाक्षीजटा, 'जारी' पुत्रंजारी, 'दण्डी' ब्रह्मदण्डीजटा, 'इन्द्रवारुणी' विशालाजटा, 'गोबन्धिनी' अधःपुष्पी, प्रियङ्गुरित्येके, 'सलज्जानां' समन्ताज्जटान्वितानां एतेषां द्रव्याणां चूर्ण संपेष्य । 'विधाय वटिका बहू:' बहूरपि वटिकाः कृत्वा ॥
१ सर्षपाः इति ग पाठः । २ फिक्का इति ग पाठः ३ सुरभा इति ग पाठः
For Private And Personal Use Only