________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दशमः गारुडतन्त्राधिकार परिच्छेदः । १०
संग्रहमङ्गन्यासं रक्षां स्तोभं च वच्म्यहं स्तम्भम् । विषनाशनं सचोद्यं खटिकाफणिदशनदंशं च ॥ १॥
'संग्रह' दष्टस्य संग्रहम् । 'अङ्गन्यास' दष्टपुरुषस्य शरीराक्षरविन्यासम् । 'रक्षा' दष्टस्य रक्षाकरणम् । 'स्तोभं च' दष्टावेशकरणं, चः समुच्चये । 'वच्म्यहं' मल्लिषेणाचार्यः कथयामि । 'स्तम्भ' दष्टस्य शरीरे विषप्रसरणनिरोधः स्तम्भम् । 'विषनाशनं' निर्विषीकरणम् | 'सचोद्यं' चोद्येन सह वर्तत इति सचोद्यं, दष्टपटाच्छादनादि कौतुकम् । 'खटिकाफणिदशनदंशं च ' खटिकालिखितसर्पदन्तदंशमित्यष्टाङ्गगारुडमहं वच्मीति सम्बन्धः ॥ प्रथमस्तावत्संग्रहोऽभिधीयते—
समविषमाक्षरभाषिणि दूते शशिदिनकरौ च वहमानौ । दष्टस्य जीवितव्यं तद्विपरीते मृतिं विन्द्यात् ॥ २॥
'समविषमाक्षरभाषिणि दूते शशिदिनकरौ च वहमानौ' 'चन्द्रदिवाकरौ स्वरौ प्रवर्तमानौ । 'दष्टस्य जीवितव्यं' समाक्षरभाषिणि दूते चन्द्रे वहमाने, विषमाक्षरभाषिणि दूते सूर्ये वहमाने दष्टपुरुषस्य संग्रहोऽस्तीति विन्द्यात् । 'दष्टस्य जीवितव्यं तद्विपरीते मृतिं विन्द्यात्' समाक्षरभाषिणि दूते सूर्ये वहमाने, विषमाक्षरभाषिणि दूते चन्द्रे वहमाने इति स्वरवर्णवैपरीत्ये दष्टपुरुषस्य संग्रहो न विद्यते इति विन्द्यात् ॥
दूतमुखोत्थितवर्णान् द्विगुणीकृत्य त्रिभिर्हरेद्भागम् ।
शून्येनोद्धरितेन च मृतिजीवितमादिशेत् प्राज्ञः ॥ ३॥
'दूतमुखोत्थितवर्णान् द्विगुणीकृत्य' तानि प्रश्नाक्षराणि सर्वाणि द्विगुणीकृत्य । 'त्रिभिर्हरेद्भागं' तद्विगुणित - राशि त्रिभिर्भागे हरेत् । 'शून्येनोद्धरितेन च' तद्भागावशे पशून्येन शून्य समच्छेदेन एकद्विरवशिष्टेन च । 'मृतजीवितमादिशेत्' शून्येन दष्टस्य संग्रहाभावमादिशेत्, एकद्विरुद्धरितेन दष्टस्य संग्रहो ऽस्तीत्यादिशेत् ॥
हं वं क्षं मन्त्रमन्त्रिततोयेनोद्धुषति यस्य गात्रं चेत् ।
स च जीवत्यथवाक्षिस्पन्दनतो नान्यथा दष्टः ॥ ४॥
अतः परमङ्गन्यासोऽभिधीयते -
Acharya Shri Kailassagarsuri Gyanmandir
‘हं वं क्षं मन्त्रः' हं वं क्षं इति मन्त्रः । 'मन्त्रिततोयेन' अनेन मन्त्रेणाभिमन्त्रितोद केनाच्छोटितेन । 'उद्धषति यस्य गात्रं चेत्' यस्य दष्टस्य शरीरं कम्पवच्चेत् । स च जीवति' स उषितगात्र पुरुषो जीवति । 'अथवाक्षिस्पन्दनतः ' अन्येन प्रकारेणाक्ष्णोरुन्मीलनेन संदष्टो जीवति । 'नान्यथा दष्ट: ' यस्य दष्टस्य तदुदकसिञ्चनेन गात्रोद्धुषणं तदक्षिस्पन्दनं च न विद्यते तस्य दष्टस्य जीवितं न स्यादिति ज्ञातव्यम् ॥
इति संग्रहपरिच्छेदः ।
क्षिप तँ स्वाहा बीजानि विन्यसेत् पादनाभिहृन्मुखशीर्षे । पीतसितकाञ्चनासितसुरचापनिभानि परिपाट्या ॥ ५ ॥
For Private And Personal Use Only