________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविवरणे भैरवपद्मावतीकल्पे [श्लोकाः ८।२५ - मार्तण्डस्नुहिदुग्धं त्रिकटुकहयगन्धसद्मभवधूमैः।
आलिप्य ललाटस्थं गृहिणां कुरुते गृहावेशम् ॥२५॥ 'मार्तण्डस्नुहिदुग्ध' अर्कक्षीरं, स्नुहीक्षीरम् । 'त्रिकटुके' प्रसिद्धम् , 'हयगन्धा' अश्वगन्धा, ‘सद्मभवधमैः' गृहधूमैः । इत्यादिद्रव्यैः 'आलिप्य' तत्पत्रमालिप्य । 'ललाटस्थं' भालस्थम् । केषाम् ? 'गृहिणां' गृहीतपुरुषाणाम् । 'कुरुते' करोति । कम् ? 'गृहावेशम्' गृहावतारम् ॥
कुनटीगन्धकतालकचूर्णं कृत्वा सितार्कवलेन ।
संवेष्ट्य पद्मनालकसूत्रेण च वर्तिरिह कार्या ॥२६॥ 'कुनटी' मनःशिला, 'गन्धकः' प्रसिद्धः, 'तालकम्' गोदन्तचूर्णम् , 'कृत्वा' एतेषां द्रव्याणां चूर्ण कृत्वा । 'सितार्कतूलेन' श्वेतरविफलोद्भवतलेन । 'संवेष्टय' तच्चूर्ण तत्तलमध्ये सम्यग्वेष्टयित्वा, केवलं तेन 'पद्मनालक सूत्रेण च' पद्मनालोद्भवसूत्रेण परिवेष्ट्य च । 'वर्तिरिह कार्या' अनेन प्रकारेण वर्तिरिह वर्तव्या ॥
सा कतैलभाव्या तया प्रदीपं विबोधयेन्मन्त्री।
यत्राधोमुखमगमद्दीपस्तत्रास्ति वसुराशिः ॥२७॥ ‘सा कतैलभाव्या' सा कृता वतिः कतैलेन भावनीया। 'तया' एवंविधवा । 'प्रदीपं' प्रकाशितदीपम् । “विबोधयेत्' प्रज्वालयेत् । कः? 'मन्त्री मन्त्रवादी । 'यत्राधोमुखमगमद्दीपः' तत्र यस्मिन् स्थले तद्दीपः अघोमुखं गच्छति 'तत्रास्ति वसुराशिः' तस्मिन् स्थले सुवर्णराशिरस्तीति ज्ञातव्यम् ।
विनयादिप्रज्वलितज्योतिर्दिशायां मरुन्नभोऽन्तपदम्।
प्रपठन् मनसा मन्त्रं प्रदीपमालोक्येन्मन्त्री ॥२८॥ 'विनयादि' कारपूर्वम् 'प्रज्वलितज्योतिर्दिशायाम्' इति पदम् । पुनः कथम्भूतम् ? 'मरुनभोऽन्तपदम्' स्वाहाशब्दान्वितम् । 'प्रपठन् मनसा मन्त्रं' एवं विशिष्टमन्त्रं मानसेनोच्चारयन् । 'प्रदीपं' प्रकृष्टं दीपम् । 'आलोकयेत्' विलोकयेत् । कः ? 'मन्त्री' मन्त्रवादी ।। .
मन्त्रोद्धारः-- ज्वलितज्योतिर्दिशायां स्वाहा । इयं दीपवर्तिः अश्वखुरे छुरिकायां वा प्रतिबोध्य संस्थाप्यावलोकनीया ॥
प्रायोवींशनदीनवग्रहनगव्याधिप्रसूनाक्षरा
ण्येकीकृत्य नखान्वितं त्रिगुणितं तिथ्या पुनर्भाजितम् । ब्रूयादुद्धरिताच्छुभाशुभफलं वैषम्यसाम्ये सुधी
रेतत् तथ्यमिहोदितं मुनिवरै व्याब्जधर्मांशुभिः ॥२९॥
१.
ही प्रज्वलित इति ख पाठः।
For Private And Personal Use Only