________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८२४]
निमित्ताधिकारः ८।
४९
कर्णिकाभ्यन्तरे लिखेत् । 'अष्टपत्रेषु सर्वेषु' तत्कर्णिका बहिः प्रदेशे अष्टदलेषु । 'लिखेत् परमसुन्दरी' परमसुन्दरी स्वाहा इति पदं प्रत्येकं सर्वदलेषु लिखेत् ॥
कृष्णतिलतैलपूर्णे कुलालकरमृत्तिकाकृते पात्रे । आलक्तकृत दीपे न्यग्रोधवह्निभवे ॥ २१ ॥
'कृष्ण तिलतैलपूर्ण' कृष्णतिलोद्भूततैलसम्पूर्णे । पुनः कथम्भूते ? 'कुलालकर मृत्तिका कृते' कुम्भकारकराग्रगृहीतमृत्तिकया कृते । कस्मिन् ? 'पात्रे' दीपपात्रे । 'आलक्तककृतवर्त्या' आलक्तकपटलावेष्टितवर्त्या | 'दीपे' प्रदीपे । कथम्भूते ? 'न्यग्रोधवह्निभवे' वटवृक्षकाष्ठ जनिताग्निप्रज्वलिते । कुमारिकाद्यष्टविधार्चनं प्राक्कथितविधानवज्ज्ञात्वा कर्तव्यम् । दीपनिमित्तमिदम् ||
इदानीं कर्णपिशाची विधानमभिधीयते -
श्रवणपिशाचिनि मुण्डे ! स्वाहान्तः प्रणवपूर्वकोच्चार्यः । सिद्ध्यति च लक्षजाप्यात् कर्णपिशाचीत्ययं मन्त्रः ॥ २२ ॥
'श्रवणपिशाचिनि मुण्डे ! ' श्रवणपिशाची मुण्डे ! इति पदम् । 'स्वाहान्तः ' स्वाहाशब्दान्त्यः । पुनः कथम्भूतः ? 'प्रणवपूर्वको चार्यः' कारमादिं कृत्वोच्चारितः । 'सिद्ध्यति च लक्षजाप्यात्' लक्षप्रमाणजाण्यात् सिद्धिं प्राप्नोति । 'कर्णपिशाचीत्ययं मन्त्रः' अयं मन्त्रः कर्णपिशाची नाम स्यात् ॥
मन्त्रीद्वार:- श्रवणपिशाचिनि मुण्डे ! स्वाहा ॥
मन्त्रपरिजप्तकुष्टं हृन्मुखकर्णाङ्घ्रियुगलमालिप्य ।
सुप्तस्य कर्णमूले कथयति यच्चिन्तितं कार्यम् ॥ २३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
‘मन्त्रपरिजप्तकुष्टं' कर्णपिशाचिनीमन्त्रेणैकविंशतिवाराभिमन्त्रितं कुष्टं उदकपेषितम् । 'हृन्मुखकर्णाङ्क युगलमालिप्य' एतेनोदकेन पिष्टकुष्टेन हृदयवदनश्रवणयुगलपादयुगलानि लेपयित्वा । 'सुप्तस्य' निद्रितस्य । 'कर्णमूले' श्रवणमूले । 'कथयति' वदति । 'यचिन्तितं कार्य' यद् अतीतानागतवर्त्तमानेप्सितं प्रयोजनम् ॥
२
मलयूंकारचतुर्दशकलान्वितं कूटबीजकं विलिखेत् । शिखिवायुमण्डलस्थं सनामखरताडपत्रगतम् ॥२४॥
१ ही श्रवणपिशाचिनी इति ख पाठः ।
२ मलवकार इति ख पाठः ।
'मलयूं कार चतुर्दशकलान्वितं ' मथ लव यूंकारच चतुर्दशकला च औंकारः तैः 'अन्वितम्' आवृतं मलयूंकार चतुर्दशकलान्वितम् । कम् ? 'कूटबीजक' क्षकारबीजकम् । एवं क्ष्म्ल्यों ईदृशं बीजम् । 'विलिखेत्' एतद् बीजाक्षरं लिखेत् । कथम् ? 'शिखिवायुमण्डलस्थं' अभिपुरवायुपुर मध्य स्थितम् । पुनरपि कथम्भूतम् ? 'सनामखरताडपत्रगतम्' देवदत्तनामान्वितखरताडपत्रे स्थितम् ॥
For Private And Personal Use Only