________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविवरणे भैरवपद्मावतीकल्पे श्लोकाः ७।१७___चितभस्मनकविंशतिवारान्' । 'सम्मर्य' मर्दयित्वा। कम् ? दर्पणम्'। 'शाल्यक्षतोपरिस्थित' कलमाक्षतपूजोपरिस्थित। 'नवाम्बुपरिपूर्णनवकुम्भे' अग्रोदकपरिपूर्णनवकुम्भे॥
तं प्रतिनिधाय तस्मिन्नेककुलोद्भूतकन्यकायुगलम् ।
त्रिपु वर्गेष्वन्यतमं स्नातं धवलाम्बरोपेतम् ॥१६॥ 'तं प्रतिनिधाय' तं आदर्श कुम्भस्योपरि संस्थाप्य। तस्मिन्' तत्कुम्भसमीपे। 'एककुलोद्भूतकन्यकायुगलम्' एककुलजनितकन्यकायुग्मम्। किंविशिष्टम् ? 'त्रिषु वर्णध्वन्यतमं ब्राह्मणक्षत्रियवैश्यानां मध्ये सत्कन्यकायुगलं प्राप्य, तदेकम्। पुनः कथम्भूतम् ? 'स्नातम्' कृतस्नानम् । 'धवलाम्बरोपेतम्' श्वेतवस्रपरिधानान्वितम् ॥
अभ्यर्च्य गन्धतन्दुलनिवेद्यकुसुमादिभिस्ततः कलशम् ।
दत्वा ताम्बूलादीन आदर्श दर्शयेत् ताभ्याम् ॥१७॥ 'अभ्यर्च्य' सम्यग अर्चयित्वा। कैः? 'गन्धतण्दलनिवेद्यकुसुमादिभिः' गन्धाक्षतवरपुष्पदीपधपाद्यष्टविधार्चनद्रव्यैः। 'तत:' तस्मात् । 'कलशं' पूर्णकुम्भम्। 'दत्वा ताम्बूलादीन्' ताम्बूलगन्धाक्षतकुसुमादीन् दत्वा । 'आदर्श दर्शयेत्'। 'ताभ्याम्' कुमारिकाभ्याम् ॥
मन्त्रं प्रपठस्तिष्ठेत् कुमारिकायुगलकं तथा पृच्छेत् ।
दृष्टं श्रुतं च कथयति रूपं वचनं च मुकुरान्ते ॥१८॥ 'मन्त्रं प्रपठन्' मन्नं उच्चारयन् । 'तिष्टेत्' निवसेत्। 'कुमारिकायुगलकम्' कन्यकायुगलम्। 'तथा' तेन प्रकारेण। 'पृच्छेत्' प्रश्नं कुर्वीत। 'दृष्टं तं च कथयति' यद् दृष्टं यच्छ्रतं तत्सर्व कथयति । 'रूपं वचनं च मुकुरान्ते' आदर्शे यद् दृष्टं रूपं यच्छ्रतं वचनं तत्कथयति ॥ इति दर्पणावतारः । इदानीं दीपनिषद्या कथ्यते
अष्टसहर्जातीपुष्पैः श्रीवीरनाथजिनपुरतः ।
जप्ते सुन्दरदेवी सिद्धयति मन्त्रेण सद्भक्त्या ॥॥१९॥ 'अष्टसहस्रः सहस्राष्टकैः। 'जातीपुष्पैः' मालतीप्रसनैः। श्रीवीरनाथजिनपुरतः' श्रीवर्द्वमानस्वामिजिनस्याये। 'जप्ते' जाप्ये कृते सति । 'सुन्दरदेवी' सुन्दरीनाम देवी। 'सिद्धयति' सिद्धि प्राप्नोति । केन ? 'मन्त्रेण' वक्ष्यमाणमन्त्रेण। कथम् ? 'सद्भक्त्या ' सद्भक्तिविशेषेण ॥ आराधनामन्त्रोद्धारः-3 सुन्दरि ! १परमसुन्दरि ! स्वाहा ।
ब्रह्मादिसुन्दरीशब्द होमान्तं कर्णिकान्तरे।
अष्टपत्रेषु सर्वेषु लिखेत् परमसुन्दरी ॥२०॥ 'ब्रह्मादिसुन्दरीशब्द' कारादि सुन्दरीपदम्। 'होमान्तं' स्वाहान्तम्। 'कर्णिकान्तरे' 3 सुन्दरि ! स्वाहा इति १ महासुन्दरि ! इति स पाठः।
For Private And Personal Use Only