________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८।३२]
निमित्ताधिकारः८ __ 'पाय' बालयुववृद्धति त्रिविधप्रायमध्ये नामैकम् , 'उींश' सार्वभौमानां राज्ञां मध्ये नामैकं, 'नदी' गगादिमहानदीनां मध्ये नामकं, 'नवग्रह' आदित्यादिनवग्रहाणां मध्ये नामकम् , 'नग' मन्दरादिपर्वतानां मध्ये नामैक, 'व्याधि' वातपित्तश्लेष्मोद्भवानां मध्ये नामैकं, 'प्रसून' मल्लिकाजातिशतपत्रादिपुष्पाणां मध्ये नामैकम् , 'अक्षराणि' प्रायादिप्रसूनान्तानां प्रश्नकथिताक्षरसंख्याम् । “एकीकृत्य' तानि सर्वाण्यप्येकत्राङ्कं कृत्वा । 'नखान्वितं' तदङ्कराशिमध्ये विंशत्यत योजयित्वा । 'त्रिगुणितं' तत् सप्तराशिं त्रिभिर्गुणितं कृत्वा, 'तिथ्या पुनर्भाजितम्' पुनः पश्चात् त्रिगुणितराशिं पञ्चदशभिः संख्यैर्विभज्य । 'ब्यात्' कथयेत् । कस्मात् । 'उद्धरितात्' भागावशेषात् । कि ? 'शुभाशुभफलं' शुभफलमशुभफलं च । कस्मिन् ? 'वैषम्यसाम्ये' विषमाके शुभफलं यात्, समाङ्के विरुद्धफलं ब्रयात् । कः? 'सुधीः' धीमान् । 'एतत् तथ्य' एतत् प्रश्ननिमित्तं निश्चितं सत्यम्। 'इह' अस्मिन् कल्पे । 'उदितं' प्रतिपादितम् । कैः ? मुनिवरैः मुनिवृषभैः। कथम्भूतैः ? भव्याब्जघर्माशुभिः भव्या एव अब्जानि तेषां घमांशुरादित्यस्तद्वत्तैमुनिभिः । इति प्रश्नः ॥
अर्द्धन्दुरेखाग्रगतं त्रिशूलं मध्ये च सम्यक्प्रविलिख्य धीमान् ।
ऋक्षेऽमवास्याप्रतिपद्दिने तु यस्मिन् मृगाको व्यवतिष्ठतेऽसौ ॥३०॥ ___ 'अर्द्वन्दुरेखाग्रगतम्' अर्द्धचन्द्राकाररेखाग्रस्थितम् । किं तत् ? 'त्रिशूलम्' त्रिशूलाकारम् , न केवलचन्द्राकाराग्रगतं त्रिशलम् । 'मध्ये च' तदर्धचन्द्राकाररेखामध्येऽपि च त्रिशूलम् । 'सम्यक्प्रविलिख्य' शोभनं प्रकर्षण लिखित्वा । कः ? 'धीमान्' बुद्धिमान् । 'ऋक्षे' नक्षत्रे। 'अमवास्याप्रतिपहिने तु' अमावास्यानिवर्तमानप्रतिपदिने तु । 'यस्मिन् मृगाङ्कः' असौ चन्द्रमाः प्रतिपदिने यस्मिन् ऋक्षे 'व्यवतिष्ठते' सन्तिष्टते ॥
कृत्वा तदादिं विगणय्य युद्धे विन्द्यात् त्रिशूलाग्रगतेषु मृत्युम् ।
मार्तण्डसंख्येषु जयं च तेषु पराजयं षट्सु बहिःस्थितेषु ॥३१॥ 'कृत्वा तदादि' तत्प्रतिपदिने यस्मिन् नक्षत्रे मृगाङ्कस्तिष्ठति तं नक्षत्रं त्रिशलरेखाग्रे संस्थाप्य तन्नक्षत्रमादि कृत्वा । “विगणय्य',क? 'युद्ध', यस्मिन् दिने युद्धे यस्य युध्यमानस्य पुरुषस्य जन्मनक्षत्रं यत्र लभ्यते तत्पर्यन्तं गणयेत् । 'त्रिशलाप्रगतेषु मृत्युम्' जन्मनक्षत्रं त्रिशलाप्रगतं यदा भवति तदा मृत्युम् । 'विन्द्यात् जानीयात् । 'मार्तण्डसंख्येषु जयं च तेषु' अर्द्धचन्द्राकार रेखाभ्यन्तरगतद्वादशःषु तेषु जयं स्यात् । 'पराजयं षट्सु बहिःस्थितेषु' अर्धचन्द्राकाररेखाबहिःस्थितेषु षडक्षेषु पराजयः स्यात् ॥
॥ इति युद्धप्रकरणेऽर्द्धन्दुरेखाचक्रम् ।। दिशि विदिशि तदुभयान्तरवर्तिभ्यां दिशतु पृच्छके मन्त्री।
क्रमशो बालं बालां नपुंसकं पूर्णगर्भिण्याः ॥३२॥ 'दिशि विदिशि' दिशासु विदिशासु। 'तदुभयान्तरवर्तिभ्यां' तदुभयपार्श्ववतिभ्यां तदिग्विदिग्भ्यां उभयपार्श्वस्थितानाम् । 'दिशतु' कथयतु । 'पृच्छके' प्रश्नकारिपुरुषे । कः ? ‘मन्त्री' मन्त्रवादी । कथम् ? 'क्रमशः' यथाक्रमम् । 'बाल बालां नपुंसकम्' दिशि पृच्छके बालं, विदिशि पृच्छके कुमारी दिशतु, तद्दिग्विदिग्भ्यां मध्ये वर्तिनि पृच्छके नपुंसकं दिशतु । कस्याः ? 'पूर्णगर्भिण्याः' सम्पूर्णगर्भिण्याः ।।
For Private And Personal Use Only