________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमो दर्पणादिनिमित्तपरिच्छेदः ॥८॥ सिद्धयति सहस्रजाप्यैर्दशगुणितैः प्रणवपूर्वहोमान्तैः ।
दर्पणनिमित्तमन्त्रश्चले चुले चूले प्रभृतिनोच्चार्यः ॥१॥ 'सिद्ध्यति' सिद्धिं प्राप्नोति। कैः ? 'सहस्रजाप्यैः'। कथम्भूतैः ? 'दशगुणितैः' दशसहस्रेरित्यभिप्रायः । पुनः कथम्भूतैः ? 'प्रणवपूर्वहोमान्तैः' कारपूर्वस्वाहाशब्दान्त्यैः। 'दर्पणनिमित्तमन्त्रः' आदर्शनिमित्तमन्त्रः उच्चार्यः ।।
___ मन्त्रोद्धारः-- चले चुले चूडे (ले) कुमारिकयोरङ्गं प्रविश्य यथाभूतं यथाभाव्यं यथासत्यं १ मा विलम्बय ममाशां पूरय पूरय स्वाहा ।।
सप्तवाराभिमन्त्रितगोदुग्धं पाययेत् कुमारिकयोः ।
ब्राह्मणकुलप्रवृत्योस्तयोर्द्वयोः सप्तवत्सरयोः ॥२॥ 'सप्तवाराभिमन्त्रितम्' कथितमन्त्रेण सप्तवाराभिमन्त्रितम् । किम् ! 'गोदुग्धम्' गोक्षीरम्। 'पाययेत्' पानं कारयेत् । 'कुमारिकयोः' कन्ययोः । किविशिष्टयोः? 'ब्राह्मणकुलप्रसूत्योः' विप्रवंशसञ्जातयोः। पुनः कथम्भूतयोः ? 'सप्तवत्सरयो:' सप्तवार्षिकयोः । 'तयोर्द्वयोः' उभयोः ।।
संस्नाप्य ततः प्रातर्दत्वा ताभ्यामथ प्रसूनादीन् ।
भूम्यामपतितगोमयसम्मार्जितभृतले स्थित्वा ॥३॥ 'संस्नाप्य' सम्यवस्नपयित्वा । 'ततः' स्नानानन्तरम् । 'प्रातः' प्रभातसमये । दत्वा 'ताभ्याम्' कुमारीभ्याम् । 'अर्थ' पश्चात्। 'प्रसूनादीन्' पुष्पाक्षतानुलेपनादीन् । 'भूम्याम्' पृथिव्याम् । 'अपतितम्' न पतितम् । 'गोमयं' शकृत् । 'सम्मार्जित भूतले' तेन गोशकृता सम्यग्मार्जितभूतले। 'स्थित्वा' उषित्वा ।।
चतुरस्रमण्डलस्थं कलशं गन्धोदकेन परिपूर्णम् ।
तस्योपर्यादर्श निवेशयेत् पश्चिमाभिमुखम् ॥४॥ 'चतुरस्रमण्डलस्थम्' समचतुरस्रमण्डलमध्यस्थितम्। कं तम् ? 'कलशम्' घटम्। कथम्भूतम् ? 'गन्धोदकेन परिपूर्णम्' सुगन्धद्रव्यान्वितोदकेन परिपूर्णम्। 'तस्योपरि' तत्पूर्णकुम्भस्योपरि। 'आदर्श' दर्पणम् । 'निवेशयत्' स्थापयेत्। कथम् ? 'पश्चिमाभिमुखम्' प्रतीच्यभिमुखम् ॥
तदभिमुखे प्राक्कल्पितकुमारिकायुगलमथ निवेश्य ततः ।
तहृदये ब्लॅकारं विचिन्तयेत् प्रणवसम्पुटितम् ॥५॥ 'अर्थ' पश्चात् । 'तदभिमुखे' तदर्पणाभिमुखे । 'प्राक्कल्पितकुमारिकायुगलम्' पूर्व स्नानादिकसङ्कल्पितकन्याया युग्मम् । 'निवेश्य' तन्मण्डले संस्थाप्य । 'ततः' पश्चात् । 'तहृदये' तत्कुमारिकायुगलहृदये। 'ब्लॅकारे' ब्लमिति बीजाक्षरम्। 'विचिन्तयेत्' विशेषेण ध्यायेत् । कथम् ? 'प्रणवसम्पुटितम्' कारसम्पुटगतं। 3 ल 3 इत्योंकारसम्पुटितम् ॥ १ दर्शय दर्शय भगवती इति ख पाठः ।
For Private And Personal Use Only