________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सविवरणे भैरवपद्मावतीकल्पे [प्रलोकाः ७।३६-- शात्यक्षतर्वाङ्करमलयजहोमेन शान्तिकं पुष्टिम्।
करवीरपुष्पहवनात स्त्रीणां कुर्याद् वशीकरणम् ॥३६॥ 'शाल्यक्षतर्वाङ्करमलयजहोमेन' कलमाक्षत वेतदूर्वाङ्करश्रीगन्धद्रव्यहवनेन । 'शान्तिकं पुष्टिम्' शान्तिकर्म पुष्टिकर्म च कुर्यात् । 'करवीरपुष्पहवनात्' । 'स्त्रीणां' वनितानाम्। 'वशीकरणं' वश्यकर्म कुर्यात् ।।
महिषाक्षपाहोमात् प्रतिदिवसं भवति पुरजनक्षोभः ।
क्रमुकफलपत्रहवनात् राजानो वश्यमायान्ति ॥३७॥ 'महिषाक्षपद्महोमात्' गुग्गुलपद्महवनात् । प्रतिदिवसं भवति पुरजनक्षोभः' दिनं दिन प्रति पुरजनक्षोभो भवति । 'क्रमुकफलपत्रहवनात्' पूगफलनागवल्लीपत्रहवनात् । 'राजानो वश्यमायान्ति' सर्वे पार्थिवा वश्यं गच्छन्ति।
तिलधान्यानां होमराज्ययुतैर्भवति धान्यधनवृद्धिः।
मल्लिप्रसूनहोमात सघृताद् वश्या नियोगिजनाः ॥३८॥ 'तिलधान्यानां होमैः' तिलादिधान्यहवनैः। कथम्भूतैः ? 'आज्ययुतैः' घृतान्दितैः। 'भवति धान्यधनवृद्धिः' धान्यधनवृद्धिः स्यात् । 'मल्लिप्रसूनहोमात्' मटिकापुष्पहोमात् । कथम्भूतात् ? 'सघृतात्' गवाज्ययुक्तात् । 'वश्या नियोगिजनाः' नियोगिजना वश्या भवन्ति ॥
घृतयुक्तचूतफलनिकरहोमतो भवति खेचरी वश्या।
वटयक्षिणी च होमाद् भवति वशा ब्रह्मपुष्पाणाम् ॥३९॥ 'घृतयुक्तचूतफलनिकरहोमतः' आज्ययुताम्रफलसमूहहवनात् । 'भवति' स्यात् । 'खेचरी' खेचरी नाम देवी। 'वश्या' वझ्या भवतीत्यर्थः । 'वटयक्षिणी च' वटयक्षिणी नाम देवी च । 'ब्रह्मपुष्पाणाम्' पलाशपुष्पाणाम् । 'हवनात्' होमात्। 'भवति वशा' वशीभवति॥
गृहधूमनिम्बराजीलवणान्वितकाकपक्षकृतहोमैः।
एकोदरजातानामपि भवति परस्परं वैरम् ॥४०॥ 'गृहधूम' आगारधूम। 'निम्बः' पिचुमन्दः। 'राजी' कृष्णसर्षपः। 'लवणम्' सामुद्रम् । 'अन्वितैः' एतैर्युक्तः 'काकपक्षकृतहोमः' वायसपक्षकृतहोमैः। ‘एकोदरजातानाम्' एकोदरसमुत्पन्नपुरुषाणाम् । 'अपि' निश्चयेन । परस्परं वैरम्'। 'भवति' जायते ॥
प्रेतवनशल्यमिश्रितबिभीतकाङ्गारसमधूमानाम् ।
होमेन भवति मरणं पक्षाहाद् वैरिलोकस्य ॥४१॥ __'प्रेतयनशल्यमिश्रितविभीतकाङ्गारसमधूमानाम्' श्मशानास्थियुक्तभूतवृक्षाङ्गारगृहधूमानाम् । 'होमेन' हवनेन । 'भवति' जायते । किं तत् ? 'मरणम्' पञ्चत्वम् । कथम् ? पक्षाहात्' पक्षदिनमध्यतः। कस्य ? 'वैरिलोकस्य' शत्रुजनस्या।
इत्युभयभाषाकविशेखरश्रीमल्लिषेणसृरिविरचिते भैरवपद्मावतीकल्पे वश्यमन्त्राधिकारः
सप्तमः परिच्छेदः॥७॥
For Private And Personal Use Only