________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३
७.३५]
वशीकरणयन्त्राधिकारः७। 'विचिन्तयेत् ' विशेषेण चिन्तयेत्। कम् ? 'एव लपिण्डमेकम्' कलेंकारमेकम् । कथम्भूतम् ? 'सिन्दूरवर्ण' सिन्दूरसदृशवर्णम् । व? 'वनितावराङ्गे' स्त्रीणां योनौ। 'तद् द्रावण' तच्चिन्तनं दावणं करोति। कस्मात् ? 'दृष्टिनिपातमात्रात्' ध्यानकर्तुः दृष्टिनिपातमात्रात्। न केवलं द्रावं मोहं च करोति, १'ज्याकर्षणं सप्तदिनानि मध्ये सप्तदिनानां मध्ये ख्याकर्षणं करोति॥
ब्राह्मणमस्तककेशैः कृत्वा रज्जु तया नरकपालम् । आवेष्ट्य साध्यदेहोद्वर्त्तनमलकेशनखरपादरजः ॥३२॥ मनुजास्थिचूर्णमिश्रं कृत्वा तन्निक्षिपेत् पुरोक्तंपुटे ।
ज्वरयति मन्त्रस्मरणात् सप्ताहादस्थिमथनेन ॥३३॥ ॥ युगलम् ॥ 'ब्राह्मणमस्तककेशैः' द्विजशिरोरुहैः । 'कृत्वा रज्जुम्' तच्छिरोरुहै: रज्जु कृत्वा। 'तया' रज्ज्वा। 'नरकपालं' नृकपालपुटम् । 'आवेष्टय' समन्ताद् वेष्टयित्वा। 'साध्यदेहोद्वर्तनमलकेशनखर पादरजः' साध्यपुरुषस्य शरीरोद्वर्त्तनमलशिरोरुहनखपादरेणून् गृहीत्वा 'मनुजास्थिचूर्णमिश्रम्' नरास्थिचूर्णमिश्रम् । 'कृत्वा' विधाय। 'तत्' मलादिचूर्णम् । 'निक्षिपेत्' स्थापयेत्। क ? 'पुरोक्तपुटे' प्रागुक्तनृकपालपुटे। 'ज्वरयति' साध्यपुरुषं ज्वरेण गृह्णाति । कस्मात् ? 'मन्त्रस्मरणात्' चण्डेश्वर ! इत्यादिमन्त्रचिन्तनात् । कथम् ? 'सप्ताहात्' सप्तदिनमध्यतः। केन ! 'अस्थिमथनेन' पुरुषास्थिकीलकमथनेन । मन्त्रोद्धारः-3 चण्डेश्वर ! चण्डकुटारेण अमुकं ज्वरेण ही गृह्ण गृह्ण मारय मारय ई फ. घे घे॥
चण्डेश्वराय होमान्तं सञ्जपेद् विनयादिना ।
सहस्रदशकं मन्त्री पूर्वमारुणपुष्पकैः ॥३४॥ ‘चण्डेश्वराय' चण्डेश्वरायेति पदम् । 'होमान्तम्' स्वाहाशब्दान्तम् । 'सञ्जपेत्' सम्यग्जपेत् । कथम् ? 'विनयादिना' चैंकारपूर्वेण । 'सहस्रदशकं' दशसहस्रम् । कोऽसौ ? 'मन्त्री' मन्त्रवादी। कथम् ? 'पूर्वम्' पूर्वसेवायाम्। कैः। 'अरुणपुष्पकैः' रक्तकरवीरपुष्पैः ।। मन्त्रोद्वारः-- चण्डेश्वराय स्वाहा ।। जाप्य सहस्रदश (१००००)
टान्तवकारप्रणवनजान्तार्द्धशशिप्रवेष्टितं नाम ।
शीतोष्णज्वरहरणं स्यादुष्णहिमाम्बुनिक्षितम् ॥३५॥ 'टान्तवकार' टान्तः-ठकारः। वकार:-4 इत्यक्षरम् । 'प्रणवनम्' कारम् । 'जान्तो' झकारः। 'अर्द्धशशिप्रवेष्टितम्' अर्द्धचन्द्राकाररेखावेष्टितं एतैः ठकारादिपञ्चमिः 'प्रवेष्टितम्' प्रकर्षेण वेष्टितम् । किं तत् ? 'नाम' ज्वरगृहीतपुरुषनाम । 'शीतोष्णज्वरहरणं स्यादुष्णहिमाम्बुनिक्षिप्तं' एतद् यन्त्रं उष्णोदकमध्ये निक्षिप्तं शीतज्वरहरण स्यात् , तदेव यन्त्रं शीतोदकमध्ये निक्षिप्तं उष्णज्वरहरणं स्यात् ॥
इदानी होमद्रव्यविधानमभिधीयते--
१ 'सप्ताहतोऽप्यानयनं करोति' सप्तदिवसानां मध्ये ज्याकर्षणं करोति । के पाठः। २ कपालपुटे इति ख पाठः ।
For Private And Personal Use Only