________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
દર
सविवरणे भैरवपद्मावतीकल्पे श्लोकाः ७।२७-- तत्त्वं मन्मथवीजस्य तलोपरि विचिन्तयेत्।।
पार्श्वयोरेव लंपिण्डं भ्रमन्तमरुणप्रभम् ॥२७॥ ___'तत्त्वं' हौंकारम् । 'मन्मथबीजस्य' कामदेवबीजस्य क्लौंकारस्य। 'तलोपरि' ततः क्लीकाराधोपरिप्रदेशे ह्रीं ह्रीमिति । 'पार्श्वयोः' तत्क्लीकारोभयपार्श्वयोः। एव। 'लं पिण्डं' क्लेकारम्। 'विचिन्तयेत्' ध्यानं कुर्यात् । कथम्भूतम् ? 'भ्रमन्त' चक्रवद् भ्राम्यन्तम्। पुनः कथम्भूतम् ? 'अरुणप्रभम्' जपाकुसुमवर्णम् ।।
योनौ क्षोभं मूर्धनि विमोहनं पातनं ललाटस्थम् ।
लोचनयुग्मे द्रावं ध्यानेन करोतु वनितानाम् ॥२८॥ 'योनौ क्षोभम्' तदक्षरत्रयात्मके चक्राकारे वनितायोनी ध्याने कृते वनिता क्षोभं प्रयाति । 'मूर्धनि विमोहनम्' तदेव ध्यानं वनितामस्तके कृते स्त्री मोहनम्। 'पातनं ललाटस्थम्' तदेव ध्यानं वनिताललाटे कृते सति सा विह्वलीभवति। 'लोचनयुम्मे द्रायम्' तदेव ध्यानं वनितादृष्टियुग्मे कृते सति द्रावो भवति । 'ध्यानेन' अनेन कथितध्यानेन। 'करोतु' क्षोभमित्यादि कर्म कुर्यात् । कासाम् ? 'वनितानाम्' स्त्रीणाम् ॥
शीर्षास्यहृदयनाभौ पादे चानङबाणमथ योज्यम्।
सम्मोहनमनुलोम्ये विपरीते द्रावणं कुर्यात् ॥२९॥ 'शी' मस्तके 'आस्ये' वदने 'हृदये' हृत्प्रदेशे 'नाभी' नाभिप्रदेशे । 'पादे' पादयोः । 'चः' समुच्चये। 'अनङ्गबाणम' द्रां द्रीं क्लीं ब्लैंसः इति पञ्चबाणान्। 'अथ योज्यम' शीर्षादिष पश्चस्थानेष क्रमेण योजनीयम्। 'सम्मोहनमनुलोम्ये' मूर्धादिपादान्तध्यानेन सम्मोहनम्। 'विपरीते द्रावणं कुर्यात्' तानेव पञ्च बाणान् पादादारभ्य क्रमेण मस्तकपर्यन्तं ध्यात्वा द्रावणं कुर्यात् । दाँदी क्ली लं सः इत्यङ्गानुलोमस्थापने पञ्च बाणाः ।।
दद्यात् ताम्बूलगन्धादीन स्मरबाणाभिमन्त्रितान्।।
क्षालयेदात्मवक्त्रं च स स्त्रीणां मन्मथो भवेत् ॥३०॥ 'दद्यात्' ददातु। कान् ? 'ताम्बूलगन्धादीन्' तांबूलश्रीखण्डगन्धपुष्पफलादीन् । कथम्भूतान् ? 'स्मरबाणाभिमन्त्रितान्' कामबाणमन्त्रेणाभिमन्त्रितान् । न केवलं ताम्बूलादीन्येव दीयन्ते 'क्षालयेदात्मवक्त्रं च' तन्मन्त्रेणोदकमभिमन्य स्ववदनं प्रक्षालयेच्च । 'स:' एवंविधः पुरुषः। 'स्त्रीणाम्' वनितानाम् । 'सन्मथ:' कामदेवो भवेत्।
___ तत्पुष्पाभिमन्त्रण मन्त्रोद्धारः---- द्राँ दी क्ली ब्लू सः हक्की ऐ नित्यक्लिन्ने ! मदद्रवे ! मदनातुरे ! 'सर्व जनं मम वश्यं कुरु कुरु वषट् ॥
विचिन्तयेदेव लपिण्डमेकं सिन्दूरवर्णं वनितावराले ।
तद् द्रावणं दृष्टिनिपातमात्रात् स्व्याकर्षणं सप्तदिनानि मध्ये ॥३१॥ १ ह्रीं इति ख पाठः। २ सप्ताहतोऽप्यानयनं करोति । क पाठः ।
For Private And Personal Use Only