________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
सविवरणे भैरवपद्मावतीकल्पे [श्लोकाः ८।१०शशिमण्डलवत् सौम्यं तन्मन्त्रमनुस्मरन् स्वयं तिष्ठेत् ।
आदर्शवीक्ष्यमाणं कुमारिकायुगलकं पृच्छेत् ॥६॥ 'शशिमण्डलवत् सौम्यं' चन्द्रमण्डलवत्सौम्यरूपम्। 'तन्मन्त्रम्' वक्ष्यमाणमन्त्रम् । 'अनुस्मरन् स्वयं तिष्ठेत्' मन्त्रवाद्यात्मना तिष्ठेत् । 'आदर्शवीक्ष्यमाणं कुमारिकायुगलकम्' कन्यकायुगलम् । 'पृच्छेत्' प्रष्टव्यम् ॥
यद् दृष्टं यच्छ्रतं ताभ्यां तत्र रूपं वचो यथा।
खड्डाष्ठे जलादर्शे तत् सत्यं नान्यथा भवेत् ॥७॥ 'यद् दृष्टम्' यत् तत्र दृष्टम्। 'यच्छ्रतम्' यत् तत्र श्रुतम्। 'ताभ्याम्' कुमारिकाभ्याम् । 'तन्त्र' मुकुरादिनिमित्ते । 'रूपं वचो यथा' येन प्रकारेण दृष्ट रूपम् , आकर्णितं वचनम् । व? 'खजाइष्टजलादर्श' खड्दाङ्गष्टनिमित्ते, जलपूर्णकलशे, दर्पणनिमित्ते। 'तत् सत्यम्' यद् दृष्टम् , यच्छ्रतं तत् सर्व तथ्यम्। 'नान्यथा भवेत्' अन्ये प्रकारेणासत्यं किमपि न भवति ।
दर्पणाङष्ठदीपादिनिमित्तमवलोकयेत् ।
सिध्यत्यष्टसहस्रेण मन्त्रो जाप्येन मन्त्रिणाम् ॥८॥ 'दर्पणाङ्गुष्ठदीपादि निमित्तं अवलोकयेत्' निरीक्षेत । 'सिध्यति' सिद्धि प्राप्नोति। 'अष्टसहस्रेण' सहस्राटकेन । कोऽसौ ? 'मन्त्रः' वक्ष्यमाणमन्त्रः। 'जाप्येन' जपनेन । केषाम् ? 'मन्त्रिणाम्' मन्त्रवादिनाम्। तदाराधनमन्त्रोद्धारः:- नमो मेरु महामेरु, ॐ नमो गौरी महागौरी, ॐ नमः काली महाकाली, 3 इन्द्रे महाइन्द्रे, जये महाजये, ॐ नमो विजये महाविजये, ३ नमः पण्णसमणि महापण्णसमणि, अवतर अवतर देवि अवतर अवतर२ स्वाहा ॥
दत्वा दर्भास्तरणं दुग्धाहारं पुरा कुमारिकयोः।
संस्नाप्य ततः प्रातर्धवलाम्बरभूषणादीनि ॥९॥ 'दत्वा' । किम् ? 'दर्भास्तरणम्' दर्भशय्याम् । 'दुग्धाहारम्' क्षीराहारम् । कथम् ? 'पुरा' निशि प्रथमयामे। कयोः? 'कुमारिकयोः' । 'ततः' तदनन्तरम् । 'प्रातः' प्रभातसमये। 'संस्नाप्य' सम्यवस्नपयित्वा। 'धवलाम्बरभूषणादीनि' श्वेतवस्त्रालङ्करणादीनि ।।
कलशादर्शकुमारीस्थानेष्वथ विन्यसेदिमं मन्त्रम् ।
विनयं गजवशकरणं क्षांक्षीहूंकारहोमान्तम् ॥१०॥ 'कलशादर्शकुमारीस्थानेषु' कलशस्थापने, दर्पणस्थापने, कुमारीस्थापने, एतेषु स्थानेषु । 'अर्थ' पवाद ।
१ यत् श्रुतं इति ख पाठः । २ ह्रीं स्वाहा इति स पाठः ।
For Private And Personal Use Only